वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 169, कुल 835 में से
संदर्भ में पढ़ें( ११८ ) सिद्धान्तकौमुद्याम्- ।२।१।२१ ॥ अन्यपदार्थे [विद्यमानं] सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम् ॥ विभा- षाधिकारेऽपि वाक्येन संज्ञानवगमादिह नित्यसमासः । उन्मत्तगङ्गं नाम देशः । लोहितगङ्गम् ॥ समासान्ताः ।५।४।६८ ॥ इत्यधिकृत्य ॥ अव्ययीभावे शरत्प्रभृतिभ्यः ।५।४।१०७ ॥ शरदादिभ्यष्टच् स्यात्समासान्तोऽव्ययीभावे ॥ शरदः समीपमुपशरदम् । प्रतिविपाशम् ॥ शरद् । विपाश् । अनस् । मनस् । उपानह् । दिव् । हिमवत् । अनडुह् । दिश् । दृश् । विश् । चेतस् । चतुर । त्यद् । तद् । यद् । कियत् । जराया जरस् च ॥ उपजरसम् । प्रति- परसमनुभ्योऽक्ष्णः ॥ यस्येति च ॥ प्रत्यक्षम् । अक्षणः परमिति विग्रहे समासान्तविधानसा- मर्यादव्ययीभावः । परोक्षे लिडिति निपातनात्परस्यौकारादेशः । परोक्षम् । परोक्षा क्रियेत्यादि तु अर्शआद्यचि । समक्षम् । अन्वक्षम् ॥ अनश्व । ५।४।१०८ ॥ अनन्तादव्ययीभावाट्टच् स्यात्। नस्तद्धिते ।६।४।१४४ ॥ नान्तस्य भस्य टेर्लोपः स्यात्तद्धिते ॥ उपराजम् । अध्यात्मम् । नपुंसकादन्यतरस्याम् ।५।४।१०९ ॥ अनन्तं यत्क्लीबं तदन्तादव्ययीभावाट्टच् वा स्यात् ॥ १ अन्यपदार्थे इति 'समस्यते' इत्यनेनान्वेति । तथा च 'अन्यपदार्थे समस्यते समस्तं संज्ञायां चेत्' इत्यर्थः । एवं च वृत्तौ दृश्यमानम् 'विद्यमानम्' इति पदमनन्वितत्वात्केनचिच्छिद्वरेण 'अनेकमन्यपदार्थे' इति सूत्रवृत्तौ दृष्टं वर्धितमिति व्यर्थमेवेति बोध्यम् ॥ इति केचित् ॥ 'अन्यपदार्थे विद्यमानं यथा स्यात् तथा समस्यते' इति क्रियाविशेषणतया योज्यमिति तु दाधिमथाः ॥ २ वाक्येन संज्ञानवगमादिति । वृत्त्यर्थावबोधकमेव विग्रहवाक्यं भवति । संज्ञा हि अनादिपरम्परयोच्चारितैव भवति यथा 'पङ्कज' इत्येककमलसंज्ञा न तु 'पङ्के जातम्' 'पङ्कजनिकर्तृ' इति । तथा अनादिपरम्परया 'लोहितगङ्ग' इत्येव श्रूयते न तु 'लोहिता गङ्गा यस्मिन्' इति वाक्यमिति वाक्येन शक्तिग्रहाभावाद्वाक्यं संज्ञावाचकं न भवतीत्येवार्थः । न तु 'वाक्यं नैव प्रयुज्यते' इति, 'संज्ञायाम्' इति सूत्रविधेयसमासस्य भाष्ये 'वाप्यामश्वो वाप्याश्वः' इति विग्रहप्रदर्शनात् । 'द्वितीयातृतीये' इति सूत्रभाष्ये 'लोहितगङ्गमव्ययीभावेन 'मुक्ते बहुव्रीहिर्न' इत्यत्र मुक्तपदोपादानेन अव्ययी- भावाभावस्यापि ध्वननाच्च ॥ ३ नित्यसमास इति । "एष ब्रह्मदत्तः इति अब्रह्मदत्तं 'ब्रह्मदत्तः' इत्याह । तेन गम्यते 'ब्रह्मदत्तवदयम्' इति" तत्र भाष्यदर्शितरीत्या 'नित्यसमासवत्' इत्येवार्थः ॥ ४ शरद्, विपाश्, अनस्, मनस्, उपानह्, अनडुह्, दिव्, हिमवत्, हिरुक्, विद्, सद्, दिश्, दृश्, विश्, चेतस्, चतुर्, त्यद्, तद्, यद्, कियत्, जराया जरस् च, प्रतिपरसमनुभ्योऽक्ष्णः, पथिन् । इति शरदादिः ॥ ५ 'अव्ययीभावे' इति पञ्चम्यर्थे सप्तमीति 'शरदाद्यन्तादव्ययीभावसमासयोग्याल्लौकिकप्रक्रियावाक्य- स्यान्तावयवष्टच्' इत्येव सूत्रार्थ इति 'उप सु शरद् ङस्' इत्यलौकिकप्रक्रियावाक्यस्यैवान्तावयवे टचि जाते 'उप सु शरद् ङस् टच्' इत्येवं जाते तद्धितान्तत्वात्प्रातिपदिकत्वेन सुपो लुकि 'उपशरद' इति जाते समासत्वात्तद्धितान्तत्वाद्वा जातां प्रातिपदिकसंज्ञामारित्य जातस्य सुपः 'नाव्ययीभावाद्' इत्यमादेशः इति प्रक्रियातत्त्वम् ॥ ६ अक्षणः परमिति विग्रहे समासान्तविधानसामर्थ्यादिति । परशब्दस्या- व्ययत्वाभावेन समासाप्राप्तौ समासान्तविधानमसङ्गतं सत् समासं विशेषापेक्षया ज्ञापयति इति भावः ॥ इदं च परशब्दपाठं यथाश्रुतमकारान्तमनुसृत्य ॥ वस्तुतस्तु 'परि' इत्येव पाठः स्वल्पप्रमादेनैव तथापाठस्य संभवात् । तथा च 'अपपरिबहिरञ्चवः पञ्चम्या' इत्यनेन समासः सिद्ध एवेति लाघवम् ॥ परेर्वर्जनार्थस्या- संभवाभावात् ॥ 'परोक्षे' इति निर्देशेनौकारनिपातनस्य ज्ञाप्यसमासपाठसत्त्वे परशब्दाकारस्येव सिद्धसमास पाठसत्त्वे परिशब्दे इकारस्यैवेत्युभयत्र समत्वात् 'परो भावः परस्याक्षे परोक्ष लिटि दृश्यताम् । उत्वं वादेः परादक्षणः सिद्धं वास्मान्निपातनात् ॥' इत्येतेषु तृतीयोपायेन मदर्शितपाठस्यापि ध्वनना- दिति मात्सर्यमुत्सार्य विचार्यमाचार्यवर्यैः ॥ ७ इत्यादीत्यादिना 'अन्वक्षं स्फाटिकम्' इत्यस्यापि संग्रहः ॥