वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 170, कुल 835 में से
संदर्भ में पढ़ेंउपचर्मम् । उपचर्म ॥ नदीपौर्णमास्याग्रहायणीभ्यः ।५।४।११० ॥ [ वा ] टच् स्यात् ॥ उपनदम् । [ उपनदि ] उपपौर्णमासम् । [ उपपौर्णमासि ] उपाग्रहायणम् । [ उपाग्रहायणि ] ॥ झयः । ५। ४ । १११ ॥ झयन्तादव्ययीभावाट्टज्वा ॥ उपसमिधम् । उपसमित् ॥ गिरेश्च सेनकस्य ।५।४।११२ ॥ गिर्यन्तादव्ययीभावाट्टज्वा स्यात् ॥ सेनकग्रहणं पूजार्थम् । उपगि- रम् । उपगिरि ॥ इत्यव्ययीभावप्रकरणम् । अथ तत्पुरुषप्रकरणम् । तत्पुरुषः ।२।१।२२ ॥ अधिकारोऽयम् । प्राग्बहुव्रीहेः ॥ द्विगुश्च ।२।१।२३ ॥ द्विगुरपि तत्पुरुषसंज्ञः स्यात् ॥ इदं३ सूत्रं त्यक्तुं शक्यम् ॥ संख्यापूर्वो द्विगुरिति पठित्वा चकारबलेन संज्ञाद्वयसमावेशस्य सुवचत्वात् । समासान्तः प्रयोजनम्– पञ्चराजन् ॥ द्विती- या श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः । २ । १ । २४ ॥ द्वितीयान्तं श्रितादिप्रकृ- तिकैः सुबन्तैः सह वा समस्यते स तत्पुरुषः ॥ कृष्णं श्रितः कृष्णश्रितः । दुःखमतीतो दुः- खातीतः ॥ गम्यादीनामुपसंख्यानम् * ॥ ग्रामं गमी ग्रामगमी । अन्नं बुभुक्षुः अन्नबुभुक्षुः ॥ स्वयं क्तेन । २ । १ । २५ ॥ द्वितीयेति न संबध्यते, अयोग्यत्वात् । स्वयंकृतस्यापत्यं स्वायंकृतिः ॥ खट्वा क्षेपे । २।१।२६ ॥ खट्वाप्रकृतिकं द्वितीयान्तं क्तान्तप्रकृतिकेन सुबन्तेन १ ‘आचार्यप्रवृत्तिर्ज्ञापयति- ‘न तद्विशेषेभ्यो भवति’ इति । यदयं विपाट् शब्दं शरत्प्रभृतिषु पठति’ इति संख्यासंज्ञासूत्रभाष्यप्रामाण्येन ध्वनिते ‘नदीपौर्णमास्याग्रहायणीभ्यः’ इति सूत्रस्य ‘अनश्च’ इत्यतः प्राक् पाठेन नित्यसमासान्तविधायकत्वे ‘उपनदि’ इत्यादिसमासान्तविर- हितप्रयोगलेखनं काशिकानुसरणेनैवेति तत्त्वम् ॥ २ शरदादिगणे झयन्तपाठो नित्यार्थ एवेति ॥ ३ ‘आकडाराद्’ इत्येकसंज्ञाधिकाराद् द्विगुसंज्ञायास्तत्पुरुषसंज्ञाबाधकत्वे ‘पञ्चराजम्’ इत्यादौ तत्पुरुषत्वप्रयुक्त- ष्ट्रज् न स्यादत उभयोः समावेशार्थं कृतं ‘द्विगुश्च’ इति सकलसूत्रं व्यर्थम् ‘संख्यापूर्वो द्विगुः’ इति सूत्रे चकारकरणेनैव तत्पुरुषसंज्ञया द्विगुसंज्ञाया समावेशस्य सिद्धेरित्यभिपायेणाह–इदं सूत्रं त्यक्तुं शक्यमिति ॥ ४ सुबुपात्तद्वितीयायाः प्रत्ययत्वेन ‘प्रत्ययग्रहणे तदन्तग्रहणम्’ इति तदन्तविधिम्, ‘सुपा’ इत्येतद्विशे- षणश्रितादीनां सुप्त्वाभावात् सुबन्तत्वाभावाच्चानन्वयापत्तिवारणाय स्वप्रकृतिकपरत्वं चाङ्गीकृत्य व्याचष्टे- द्वितीयान्तमित्यादि । ‘श्रितादीनां निष्ठान्तत्वात्तद्योगेऽनुक्ते कर्मणि’ ‘न लोका’ इति षष्ठी- निषेधाद् द्वितीयेवेति भावः ॥ ५ भाष्ये यद्यपि ‘गमिगाम्यादीनामुपसंख्यानम्’ इति पाठो दृश्यते ‘गमेरिनिः’ इत्यौणादिकस्य ‘आवश्यकाधमर्ण्ययोर्णिनिः’ इत्यनौणादिकस्योपादानमुभयविधाना- मन्येषां च प्रत्ययानां परिग्रहार्थम् इति प्रदीपपदमञ्जर्यौ । ‘उभयोरप्युणादिप्रत्ययान्तत्वेन कथम् ‘उभयो- पादानेन ‘अन्येषां च’ इत्यर्थलाभ इति चिन्त्यम् ॥’ इति नागेशोक्तिस्तु ‘आवश्यकाधमर्ण्ययोः’ इत्य- स्याप्यौणादिकत्वमभिप्रेत्य ॥ तथाप्यादिशब्दस्य प्रकारार्थत्वेनाभीष्टसंग्रहे सिद्ध उभयोपादानं स्पष्टार्थमित्या- शयेनाह-गम्यादीनामिति ॥ ६ ग्राममिति । ‘अकेनोर्भविष्यदाधमर्ण्ययोः’ इति षष्ठीनिषेधे द्विती- यान्तम् ॥ अन्नमिति । ‘न लोका’ इति षष्ठीनिषेधे द्वितीयान्तम् ॥ ७ समासमन्तरापि स्वयमित्यस्याव्ययत्वेन विभक्तिलुकि सिद्धे समासविधानस्यान्यत्फलमाह-स्वायंकृतिरिति । समासेन स्वयंकृतशब्दयोरेकपदत्वे जाते एव स्वयंकृतसमुदायस्य तद्धितनिरूपिताङ्गत्वं संभवति नान्यथेति समुदायस्य आदेर्वृद्धिर्भवतीति भावः ॥