वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 171, कुल 835 में से
संदर्भ में पढ़ें( १२० ) सिद्धान्तकौमुद्याम्- समस्यते निन्दायाम् । खट्वारूढो जाल्मः । नित्यसमासोऽयम् । नहि वाक्येन निन्दा गम्यते ॥ सामि ।२।१।२७ ॥ ३ सामिकृतम् ॥ कालाः । २।१।२८ ॥ क्तेनेत्येव । अनत्यन्तसंयोगार्थ वचनम् । ४ मासं प्रमितः मासप्रमितः प्रतिपच्चन्द्रः । मासं परिच्छेत्तुमारब्धवानित्यर्थः ॥ अत्य- न्तसंयोगे च । २।१।२९ ॥ काला इत्येव ॥ अक्तान्तार्थं वचनम् । ५ मुहूर्तं सुखं मुहूर्त- सुखम् ॥ तृतीया तत्कृतार्थेन गुणवचनेन । २ । १ । ३० ॥ ६ तत्कृतेति लुप्ततृतीयाकम् । तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थशब्देन च सह प्राग्वत् ॥ शङ्कुलया खण्डः शङ्कुला- खण्डः । धान्येनार्थो धान्यार्थः ॥ तत्कृतेति किम् ? अक्ष्णा काणः ॥ पूर्वसदृशसमोनार्थक- लहनिपुणमिश्रश्लक्ष्णै