वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 160, कुल 835 में से
संदर्भ में पढ़ेंकारकम्रकरणम् । ( १०९ ) च वर्तमाने । २ । ३ । ६७ ॥ वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् । न लोकेति निषे- धस्याऽपवादः । राज्ञां मतो बुद्धः पूजितो वा ॥ अधिकरणवाचिनश्च । २ । ३ । ६८ ॥ क्तस्य योगे षष्ठी स्यात् । इदमेषामासितं शयितं गतं भुक्तं वा ॥ न लोकाव्ययनिष्ठाखलर्थ- तृनाम् । २ । ३ । ६९ ॥ एषां प्रयोगे षष्ठी न स्यात् । लादेशः-कुर्वन् कुर्वाणो वा सृष्टिं हरिः । उैः-हरिं दिदृक्षुः । अलंकारिष्णुर्वा । उक-दैत्यान् घातुको हरिः ॥ कमेर्निषेधः * ॥ लक्ष्म्याः कामुको हरिः ॥ अव्ययम्-जगत् सृष्ट्वा । सुखं कर्तुम् । निष्ठा-विष्णुना हता दैत्याः । दैत्यान् हतवान् विष्णुः । खलर्थः-ईषत्करः प्रपञ्चो हरिणा ॥ तृन्निति प्रत्याहारः शतृशान- चाविति तृशब्दादारभ्य तृनो नकारात्