वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 18, कुल 835 में से
संदर्भ में पढ़ें॥ श्रीः ॥ व्याकरणागमे प्रस्तावनाविशेषः । अथ लघुत्रिमुनिकल्पतरुः । प्रारभ्यते. पूर्वो भागः । ॐ परमात्मने नमः । नत्वा शिवं गुरुं वाणीं वेङ्कटाचलसूरिणा । शेषादिना त्रिमुनिकल्पतरुः क्रियते लघुः ॥ १ ॥ अथ भगवान्परमकारुणिको लोकहितैषी यदृच्छया ब्रह्माणं सृष्ट्वा तस्मै त्रिवर्गस्य सर्वो- त्तमस्य मोक्षस्य च, सम्पादकान् (ऋग्यजुस्सामाथर्वाख्यान् साङ्गांश्चतुरो वेदानुपदिदेश । “यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै” इति श्वेताश्वतरोपनिषच्छ्रुतेः । ब्रह्मापि तदुपदेशकमेणैव जगत्सृष्ट्वा वेदोक्तान्येव नामानि तत्तज्जात्यनुगुणानि निर्माय, अध्य- यनादिरूपाणि च योग्यानि कर्माणि प्रजाभ्य उपदिदेश । तत्रेयं स्मृतिः—“सर्वेषां स तु नामानि कर्माणि च पृथक्पृथक् ॥ वेदशब्देभ्य एवासौ पृथक्संस्थाश्च निर्ममे ” इति । तत्र यजुर्वेदः शुक्लकृष्णभेदेन द्विविधः । दर्शपूर्णमासादिसर्वयाज्ञिकमन्त्राणां ब्राह्मणसं- मिश्रतया यथोक्तक्रमविन्यासेन शुक्लत्वमेकस्य अन्यस्य तु ब्राह्मणस्सङ्कीर्णत्वाद्याज्ञिकमन्त्राणां क्रमपाठाभावाच्च क्रमस्य दुर्ज्ञेयतया कृष्णत्वमिति वदन्ति । कृष्णयजुर्वेदेष्वेकस्याः तैत्ति- रीयशाखेति नामान्तरमपि । सर्वत्र वेदेषु संहिता ब्राह्मणमारण्यकमुपनिषदश्चेत्याद्यवान्त- रभेदा बहवो दृश्यन्ते । मन्त्रभाग एकः, ब्राह्मणभाग अन्यः सर्वोपीत्यभिप्रायेण मन्त्र- ब्राह्मणयोर्वेदनामधेयमित्यस्योपपत्तिः । तत्र सर्वेष्वपि वेदेषु कर्मज्ञानकाण्डभेदेन भागद्वयम् । कर्मप्रतिपादको भागः कर्मकाण्डशब्देनोच्यते, ज्ञेयार्थप्रतिपादको भागो ज्ञानकाण्डशब्देन । ज्ञानकाण्डशब्देनोपनिषद उच्यन्ते । कर्मकाण्डशब्देन तद्भिन्ना वेदभागा उच्यन्ते । कर्म- शब्देनाष्टाचत्वारिंशत्संस्कारा आग्नेयाद्युक्ता उच्यन्ते । ते च— अष्टाचत्वारिंशत्संस्कारा नाममात्रेण निर्दिश्यन्ते— ( १ ) गर्भाधानम् ( २ ) पुँसवनम् ( ३ ) सीमन्तः ( ४ ) विष्णुबलिः ( ५ ) जातकर्म ( ६ ) नामकरणम् ( ७ ) उपनिष्क्रामणम् ( ८ ) अन्नप्राशनम् ( ९ ) कर्ण- वेधः ( १० ) चौलम् ( ११ ) अक्षरस्वीकरणम् ( १२ ) उपनयनम् ( १३ ) व्रतम् ( १४ ) समावर्तनम् ( १५ ) विवाहः ( १६ ) उपाकर्म ( १७ ) उत्सर्जनम् ॥