भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 234, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 234

तद्धितेषु रक्ताद्यर्थकप्रकरणम् । ( १८३ ) अथ तद्धितेषु रक्ताद्यर्थकप्रकरणम् । तेन रक्तं रागात् । ४।२।१ ॥ रज्यतेऽनेनेति रागः । कषायेण रक्तं वस्त्रं काषायम् । माञ्जिष्ठम् ॥ रागात्किम् ? देवदत्तेन रक्तं वस्त्रम् ॥ लाक्षारोचनाट्ठक् । ४।२।२ ॥ लाक्षि- कः । रौचनिकः ॥ शकलकर्दमाभ्यामुपसंख्यानम् * ॥ शाकलिकः । कार्दमिकः ॥ आभ्यामणपीति वृत्तिकारः । शाकलः । कार्दमः ॥ नील्या अण् * ॥ नील्या रक्तं नीलम् ॥ पीतात्कन् * ॥ पीतकम् ॥ हरिद्रामहारजनाभ्यामञ् * ॥ हारिद्रम् । महारजनम् ॥ नक्षत्रेण युक्तः कालः । ४।२।३ ॥ पुष्येण युक्तं पौषमहः । पौषी रात्रिः ॥ लुबविशेषे । ४।२।४ ॥ पूर्वेण विहितस्य लुप्स्यात् षष्टिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते । अद्य पुष्यः ॥ कथं तर्हि 'पुष्ययुक्ता पौर्णमासी पौषीति ? 'विभाषा फाल्गुनीश्रवणाकार्ति- कीचैत्रीभ्य' इति निर्देशेन पौर्णमास्यामयं लुब् नेति ज्ञापितत्वात् । श्रवणशब्दात्तु अत एव लुप् युक्तवद्भावाभावश्च ॥ 'अबाधकान्यपि निपातनानि' श्रावणी ॥ संज्ञायां श्रवणाश्व- त्थाभ्याम् । ४।२।५ ॥ विशेषार्थोऽयमारम्भः । श्रवणा रात्रिः । अश्वत्थो मुहूर्तः । संज्ञायां किम् ? श्रावणी । आश्वत्थी ॥ द्वन्द्वाच्छः । ४।२।६ ॥ नक्षत्रद्वन्द्वाद्युक्ते काले छः स्यात् विशेषे सत्यसति च ॥ तिष्यपुनर्वसवीयमहः । राधासुराधीया रात्रिः ॥ दृष्टं साम । ४।२। ७ ॥ तेनेत्येव ॥ वसिष्ठेन दृष्टं वासिष्ठं साम ॥ अस्मिन्नर्थेऽण् डिद्वा वक्तव्यः * ॥ उश- नसा दृष्टमौशनम् । औशनसम् । कलेर्ढक् । ४।२।८ ॥ कलिना दृष्टं कालेयं साम ॥ वामदेवाड् डद्यड्ड्यौ । ४।२।९ ॥ वामदेवेन दृष्टं साम वामदेव्यम् ॥ सिद्धे$^{४}$ यस्येति लोपेन किमर्थं ययतौ डितौ *ग्रहणं माऽतदर्थे भूद्दामदेव्यस्य नञ्स्वरे *परिवृतो रथः । ४।२।१० ॥ वस्त्रैः परिवृतो वास्त्रो रथः ॥ रथः किम्? वस्त्रेण परि- वृतः कायः । [ सर्वन्ताद्वेष्टितः परिवृत उच्यते । तेनेह न । छात्रैः परिवृतो रथः ] ॥ पाण्डु- कम्बलादिनिः । ४।२।११ ॥ पाण्डुकम्बलेन परिवृतः पाण्डुकम्बली । पाण्डुकम्बलशब्दो

१ नक्षत्रस्थितेरव्यभिचरितत्वादत्र नक्षत्रपदं 'मञ्चाः क्रोशन्ति' इति वद् नक्षत्रस्थितचन्द्रपरमेव । तथा- चोक्तं वार्तिककृता–'नक्षत्रेण चन्द्रमसो योगात् तद्युक्ततत्काले प्रत्ययविधानम्' इति । इति सकलं मनसि निधायाह–पुष्येण युक्तमिति ॥ २ अवान्तरविशेषस्याप्रतीतावपि लुङ् कुतो नेति शङ्कते– कथंतर्हीति ॥ समाधानं तु 'फाल्गुनीकार्तिकीचैत्री' इति निर्देशो लुपि सति नोपपद्यते इति लुबभावं ज्ञापयतीति ॥ ३ कलेर्ढगिति वार्तिकं सूत्रेषु कैश्चित् प्रक्षिप्तम् ॥ ४ 'यस्येति च' इत्यनेनैवाकारलोपे सिद्धे 'वामदेव्यम्' इति रूपयोः यद्यद्म्यापि सिद्धौ डित्करणं किमर्थम्' इति शङ्कते–सिद्धे यस्येतीति ॥ ५ तद् ड्यड्यतोर्डित्करणं व्यर्थं सत् क्रमेण 'निरनुबन्धकग्रहणे न सानुबन्धकस्य ग्रहणम्' 'तद् (न्मात्रा) नुबन्धकग्रहणे न अतद् (न्मात्रा) नुबन्धकस्य ग्रहणम्' इति परिभाषे ज्ञापयति । तत्फलं 'अवामदेव्यम्' इत्यस्य 'ययतोश्चातदर्थे' इत्यत्र नञाश्रये ऽन्तोदात्ते कर्तव्ये ग्रहणं मा भूत् इति । इति समाधानाश्यः ॥ ६ अयमपपाठः मनोरमायां भाष्यवार्तिकेनैवास्यार्थस्योक्तत्वात् ॥