वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 239, कुल 835 में से
संदर्भ में पढ़ें( १८८ ) सिद्धान्तकौमुद्याम्- ॰वेष्यते * ॥ सांप्रहसूत्रिकः ॥ अकल्पादेः किम् ? काल्पसूत्रः ॥ विद्यालक्षणकल्पान्ताच्चेति वक्तव्यम् * ॥ वायसविधिकः । गौर्लक्षणिकः । आश्वक्षणिकः । पाराशरकल्पिकः ॥ अङ्ग- क्षत्रधर्मत्रिपूर्वाद्विद्यान्तान्नेति वक्तव्यम् * ॥ आङ्गविद्यः । क्षात्रविद्यः । धार्मविद्यः । त्रिविधा विद्या त्रिविद्या तामधीते वेद वा त्रैविद्यः ॥ आख्यानाख्यायिकेतिहासपुराणेभ्यश्च * ॥ यवक्रीतमधिकृत्य कृतमाख्यानमुपचाराद्यवक्रीतं तदधीते वेत्ति वा यावक्रीतिकः । वासवदत्ता- मधिकृत्य कृता आख्यायिका वासवदत्ता । ‘अधिकृत्य कृते ग्रन्थे’ इत्यर्थे वृद्धाच्छः । तस्य ‘लुबाख्यायिकाभ्यो बहुलम्*॥ इति लुप् । ततोऽनेन ठक् । वासवदत्तिकः । ऐतिहासिकः । पौराणिकः ॥ सर्वादेः सादेश्च लुग्वक्तव्यः * ॥ सर्ववेदानधीते सर्ववेदः । सर्वतन्त्रः । सर्वार्तिकः । द्विगोर्लुगिति लुक् । द्वितन्त्रः ॥ इकन्पदोत्तरपदात् शतषष्टेः षिकन्पथः* ॥ पूर्वपदिकः । उत्तरपदिकः । शतपथिकः । शतपथिकी । षष्टिपथिकः । षष्टिपथिकी ॥ ^Aक्रमा- दिभ्यो वुन् ।४।२।६१ ॥ क्रमकः । क्रम, पद, शिक्षा, मीमांसा, इति क्रमादिः ॥ अनु- ब्राह्मणादिनिः ।४।२।६२ ॥ तदधीते तद्वेदेत्यर्थे ॥ ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणं तदधीते अनुब्राह्मणी । मत्वर्थीयेनैव सिद्धे अण्बाधनार्थमिदम् ॥ ^Bवसन्तादिभ्यश्ठक् ।४।२।६३ ॥ वासन्तिकः । अथर्वाणमधीते आथर्वणिकः । दाण्डिनायनेति सूत्रे निपातनाट्टिलोपो न । प्रोक्ताल्लुक् ।४।२।६४ ॥ प्रोक्तार्थप्रत्ययात्परस्याध्येतृवेदितृप्रत्ययस्य लुक् स्यात् ॥ पणनं पणः । ‘वज्रार्थे कविधानमिति कः ॥ सोऽस्यास्तीति पणी ॥ तस्य गोत्रापत्यम् ॥ गाथिवि- दथिकेशिगणपणिनश्च ।६।४।१६५ ॥ एतेऽणि प्रकृत्या स्युः ॥ इति टिलोपो न । पाणिनः । ततो यूनि इञ् ॥ ण्यक्षत्रियार्षञितो यूनि लुगणिञोः । २ । ४ । ५८ ॥ ण्यप्रत्ययान्तात्क्षत्रियगोत्रप्रत्ययान्तादृष्यभिधायिनो गोत्रप्रत्ययान्ताद् ञितश्च परयोर्युवाभिधा- यिनोरणिञोर्लुक् स्यात् ॥ [ कौरव्यः पिता । कौरव्यः पुत्रः । श्वाफल्कः पिता । श्वाफल्कः पुत्रः । वासिष्ठः पिता । वासिष्ठः पुत्रः । तैकायनिः पिता । तैकायनिः पुत्रः । एभ्यः किम् ? शिवाद्यण् । कौहडः पिता । तत इञ् । कौहडिः पुत्रः । यूनि किम् ? वामरथ्यस्य छात्राः वामरथाः ॥ ] इति अणो^३ लुक् तु न भवति । आर्षग्रहणेन प्रति^४पदोक्तस्य ऋष्यण एव A अयं गणो मूल एव पठितः ॥ B वसन्त, ग्रीष्म, वर्षा, शरद्, हेमन्त, शिशिर, प्रथम, चरम, गुण, अनुगुण, अथर्वन्, आथर्वण । इति वसन्तादिः ॥ १ कोष्ठकान्तर्गतः पाठोऽपत्याधिकारे ‘फेञ्छ च’ इत्यस्य प्रत्युदाहरणे योग्यतया व्याख्यातव्योपि तत्रा- व्याख्यातत्वादत्रोपन्यस्तः ॥ २ इति ‘ण्यक्षत्रियार्षञितः–’ इति सूत्रेणेत्यर्थो बोध्यः ॥ ३ अण इति । अयमपपाठः । आर्षान् परत्वाभावेनाणो लुग्प्राप्तेः । इञ एव आर्षान् परत्वेन लुक्प्राप्तेः ॥ अण इति पाठस्य प्रामाणिकत्वे ‘अनन्तरस्येञः’ इति शेषो बोध्यः ॥ ४ प्रतिपदोक्तस्येति । येषामनुक्रमणिकायां मन्त्र- द्रष्टृत्वेन प्रतिपदमुक्तिस्तेषामेव ‘ऋष्यन्धक–’ इत्यत्र ‘ऋषयो मन्त्रद्रष्टारः’ इत्युक्त्या ऋषिपदेन ग्रहणस्ये- ष्टत्वेन सूचने पणिनो मन्त्रद्रष्टृत्वस्यानुक्रमणिकायामदर्शनात् । ततः ‘तस्यापत्यम्’ इत्यौत्सर्गिक एवाणिति भावः अत एव ‘दाक्षीपुत्रस्य पाणिनेः’ ‘भगवतः पाणिनेः’ इति भाष्यवार्तिकप्रयोगः संगच्छते ॥