भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 240, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 240

तद्धितेषु चातुरर्थिकप्रकरणम् । ( १८९ )

ग्रहणात् । पाणिनिः ॥ पाणिनिना प्रोक्तं पाणिनीयम् । वृद्धाच्छः । 'इञश्चैत्यण्' तु न । गोत्रे य इञ् तदन्तादिति वक्ष्यमाणत्वात् । ततोऽध्येतृवेदित्रोर्लुक् । स्वरे स्त्रियां च विशेषः । पाणिनीयः । पाणिनीया ॥ सूत्राच्च कोपधात् । ४ । २ । ६५ ॥ सूत्रवाचिनः ककारोपधादध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । अप्रोक्तार्थ आरम्भः । अष्टावध्यायाः परिमा- णमस्य अष्टकं पाणिनेः सूत्रम् । तदधीते विदन्ति वा अष्टकाः ॥ छन्दोब्राह्मणानि च तद्विषयाणि । ४ । २ । ६६ ॥ छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्विषयाणि स्युः । अध्येतृवेदितृप्रत्ययं विना न प्रयोज्यानीत्यर्थः ॥ कठेन प्रोक्तमधीयते कठाः । वैशम्पा- यनान्तेवासित्वाण्णिनिः । तस्य 'कठचरकादिति लुक् । ततोऽण् । तस्य 'प्रोक्ताल्लुक् ॥ तदस्मि- न्नस्तीति देशे तन्नाम्नि । ४ । २ । ६७ ॥ उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरः ॥ तेन- निर्वृत्तम् । ४ । २ । ६८ ॥ कुशाम्बेन निर्वृत्ता कौशाम्बी नगरी ॥ तस्य निवासः । ४ । २ । ६९ ॥ शिबीनां निवासो देशः शैवः ॥ अदूरभवश्च । ४ । २ । ७० ॥ विदिशाया अदूरभवं नगरं वैदिशम् ॥ चकारेण प्रागुक्तास्त्रयोऽर्थाः संनिधाप्यन्ते । तेन वक्ष्यमाणप्रत्ययानां चातुर- र्थिकत्वं सिध्यति ॥ ओरञ् । ४ । २ । ७१ ॥ अणोपवादः । कक्षतु-काक्षतवम् । नद्यां तु परत्वान्मतुप् । इक्षुमती ॥ मतोश्च बह्वजङ्गात् । ४ । २ । ७२ ॥ बह्वच् अङ्गं यस्य मतुपस्तद्- न्तादञ् नाऽण् ॥ सैन्ध्रकावतम् ॥ बह्वजिति किम् ? आहिमतम् । अङ्गग्रहणं बह्वजिति तद्विशे- षणं यथा स्यान्मत्वन्तविशेषणं मा भूत् ॥ बह्वचः कूपेषु । ४ । २ । ७३ ॥ अणोऽपवादः । दीर्घवरत्रेण निर्वृत्तो दैर्घवरत्रः कूपः ॥ उदक्च विपाशः । ४ । २ । ७४ ॥ विपाश उत्तरे कूले ये कूपास्तेष्वञ् ॥ अबह्वजर्थ आरम्भः ॥ दत्तेन निर्वृत्तो दात्तः कूपः ॥ उदक् किम् ? दक्षिणतः कूपेष्वणेव ॥ ^A सङ्कलादिभ्यश्च । ४ । २ । ७५ ॥ कूपेष्विति निवृत्तम् ॥ सङ्कलेन निर्वृत्तं साङ्कलम् । पौष्कलम् ॥ स्त्रीषु सौवीरसाल्वप्राक्षु । ४ । २ । ७६ ॥ स्त्रीलिङ्गेषु एषु देशेषु वाच्येष्वञ् ॥ सौवीरे-दत्तामित्रेण निर्वृत्ता दात्तामित्री नगरी । साल्वे-वैधूमाग्नी । प्राचि-माकन्दी ॥ ^B सुवा- स्त्वादिभ्योऽण् । ४ । २ । ७७ ॥ अञोऽपवादः ॥ सुवास्तोरदूरभवं सौवास्तवम् । वर्णु-वार्ण- वम् । अण्ग्रहणं नद्यां मतुपो बाधनार्थम् । सौवास्तवी ॥ रोणी । ४ । २ । ७८ ॥ रोणीश- ब्दात्तदन्ताच्च अण् ॥ कूपाञोऽपवादः । रौणः । आजकरौणः ॥ कोपधाच्च । ४ । २ । ७९ ॥ अण् । अञोऽपवादः । कार्णच्छिद्रकः कूपः । कार्कवाकवम् । त्रैशङ्कवम् ॥ वुञ्छण्कठजि- A. संकल, पुष्कल, उत्तम, उड्डप, उद्देप, उटपुट, कुम्भ, निधान, सुदक्ष, सुदत्त, सुभूत, सुभूव, सुनेत्र, सुमङ्गल, सुपिङ्गल, सूत, सिकत, पूतीक, पूलास, कूलास, पलाश, निवेश, गवेष, गम्भीर, इतर, आनू, अहन्, लोमन्, वेमन्, वरुण, बहुल, सयोज, अभिषिक्त, गोभृत्, राजभृत्, मल्ल, भल्ल, माल । इति संकलादिः ॥ B सुवास्तु, वर्णु, भण्डु, खण्डु, सेवालिन्, कर्पूरिन्, शिखण्डिन्, गर्त, कर्कश, शकटीकर्ण, कृष्णकर्ण, कर्क, कर्कन्धुमती, गोह, अहिसक्थ । इति सुवास्त्वादिः ॥ १ एतदादि चातुरर्थिकप्रकरणम् ॥