वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 246, कुल 835 में से
संदर्भ में पढ़ेंन्तादणेव । भावतः ॥ Aकाश्यादिभ्यष्ठञ्ञिठौ ॥४।२।११६ इकार उच्चारणार्थः । काशिकी । काशिका । वैदिकी । वैदिका ॥ Bआपदादिपूर्वपदात्कालान्तात् * ॥ आपदादि- राकृतिगणः । आपत्कालिकी । आपत्कालिका ॥ वाहीकग्रामेभ्यश्च ॥४।२।११७ ॥ वाही- कग्रामवाचिभ्यो वृद्धेभ्यष्ठञ्ञिठौ स्तः । छस्यापवादः ॥ कास्तीरं नाम वाहीकग्रामः । कास्तीरिकी । कास्तीरिका ॥ विभाषोशीनरेषु ॥४।२।११८ ॥ एषु ये ग्रामास्त- द्वाचिभ्यो वृद्धेभ्यष्ठञ्ञिठौ वा स्तः ॥ सौदर्शनिकी । सौदर्शनिका । सौदर्शनीया ॥ ओर्देशे ठञ् ॥४।२।११९ ॥ उवर्णान्ताद्देशवाचिनष्ठञ् ॥ निपादकर्पूः—नैपादकर्पुकः ॥ केऽण इति ह्रस्वः ॥ देशे किम् ? पटोश्छात्राः पाटवाः । ञिठं व्यावर्तयितुं ठञ्ग्रहणम् । वृद्धाच्छं परत्वादयं बाधते । दाक्षिकर्पुकः ॥ वृद्धात्प्राचाम् ॥४।२।१२० ॥ प्राग्देशवा- चिनो वृद्धादेवेति नियमार्थं सूत्रम् ॥ आढकजम्बुकः । शाकजम्बुकः । नेह—मल्लवास्तु—माल्ल- वास्तवः ॥ धन्वयोपधाद्वुञ् ॥४।२।१२१ ॥ धन्वविशेषवाचिनो यकारोपधाच्च देशवा- चिनो वृद्धाद्वुञ् स्यात् । ऐरावतं धन्व ऐरावतकः । साङ्काश्यकाम्पिल्यशब्दौ वुञ्छणादिसूत्रेण ण्यन्तौ । साङ्काश्यकः । काम्पिल्यकः ॥ प्रस्थपुरवहान्ताच्च ॥४।२।१२२ ॥ एतदन्ता- द्वृद्धाद्देशवाचिनो वुञ् स्यात् । छस्यापवादः ॥ मालाप्रस्थकः । नान्दीपुरकः । पैलुवहकः । पुरा- न्तग्रहणमप्रागर्थम् । प्राग्देशे तूत्तरेण सिद्धम् ॥ रोपधेतोः प्राचाम् ॥४।२।१२३ ॥ रोपधादीकारान्ताच्च प्राग्देशवाचिनो वृद्धाद्वुञ् स्यात् ॥ पाटलिपुत्रकः । ईतः—काकन्दकः ॥ जनपदतद्वध्योश्च ॥४।२।१२४ ॥ जनपदवाचिनस्तदवधिवाचिनश्च वृद्धाद्वुञ् स्यात् ॥ आदर्शकः । त्रैगर्तकः ॥ अवृद्धादपि बहुवचनविषयात् ॥४।२।१२५ ॥ अवृद्धाद्वृद्धाच्च जनपदतदवधिवाचिनो बहुवचनविषयात्प्रातिपदिकाद्वुञ् स्यात् ॥ अवृद्धादणो वृद्धाच्छ- स्यापवादः ॥ अवृद्धाज्जनपदात्—आङ्गकः । अवृद्धाज्जनपदावधेः—आजमीढकः । वृद्धाज्जनप- दात्—दार्ककः । वृद्धाज्जनपदावधेः—काञ्जरकः ॥ विषयग्रहणं किम् ? एकशेषेण बहुत्वे मा भूत् । वर्तनी च वर्तनी च वर्तनी च वर्तन्यः, तासु भवो वार्तनः॥ कच्छाग्निवक्त्रवर्तोत्तरपदात् । ।४।२।१२६ ॥ देशवाचिनो वृद्धादवृद्धाच्च वुञ् स्यात् ॥ दारुकच्छकः । काण्डाग्नकः । सैन्धुवक्रकः । वाहुवर्तकः ॥ Cधूमादिभ्यश्च ॥४।२।१२७ ॥ देशवाचिभ्यो वुञ् ॥ धौमकः । A काशि, वेदि, चेदि, सांयाति, संवाह, अच्युत, मोदमान, शकुलाद, हस्तिकर्पू, कुनाम, हिरण्य, करण, गोवासन, भारङ्गी, आरिन्दम, आरित्र, देवदत्त, दशग्राम, शौवावतान, युवराज, उपराज, देवराज, मोदन, सिन्धुमित्र, सुधामित्र, सोममित्र, छागमित्र, मधुमित्र । इति काश्यादिः । B आपद्, ऊर्ध्व, तद् । इत्यापदादिराकृतिगणः । C धूम, षडण्ड, शशादन, अर्जुनाव, माहकस्थली, आनकस्थली, माहिषस्थली, मानस्थली, अद्रस्थली, मद्रकस्थली, समुद्रस्थली, दाण्डायनस्थली, राजस्थली, राजगृह, विदेह, सात्रासाह, शश्व, मित्रवधे, मञ्जाली, मद्रकूल, आर्जकील, व्याहाव, च्याहाव, संस्फाय, वर्वर, वर्व्य, गर्त, आनर्त, माठर, पाथेय, घोष, पल्ली, आराज्ञी, धार्तराज्ञी, आवय, तीर्थ, कूलात्सौवीरेषु, समुद्रात्नावि, मनुष्ये च, कुक्षि, अन्तरीप, द्वीप, अरुण, [L33