वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
DevanagariHindipublished835 पृष्ठ
पृष्ठ 247, कुल 835 में से
संदर्भ में पढ़ेंपृष्ठ 247
तैर्थिकः ॥ नगरात्कुत्सनप्रावीण्ययोः । ४ । २ । १२८ ॥ नगरशब्दाद्वुञ् स्यात्कु- त्सने प्रावीण्ये च गम्ये ॥ नागरकश्चौरः शिल्पी वा ॥ कुत्सनेति किम् ? नागरा ब्राह्म- णाः ॥ अरण्यान्मनुष्ये ।४।२।१२९ ॥ वुञ् ॥ अरण्याण् इत्यस्यापवादः ॥ पथ्यध्या- यन्यायविहारमनुष्यहस्तिष्विति वाच्यम् * ॥ आरण्यकः पन्था अध्यायो न्यायो विहारो मनुष्यो हस्ती वा ॥ वा गोमयेषु * ॥ आरण्यकाः आरण्या वा गोमयाः ॥ विभाषाकु- रुयुगन्धराभ्याम् ।४।२।१३० ॥ वुञ् ॥ कौरवकः । कौरवः । यौगन्धरकः । यौगन्धरः ॥ मद्रवृज्योः कन् ।४।२।१३१ ॥ जनपदवुजोऽपवादः ॥ मद्रेषु जातो मद्रकः । वृजिकः ॥ कोपधादण् ।४।२।१३२ ॥ माहिषिकः ॥ ^Aकच्छादिभ्यश्च ।४।२।१३३ ॥ देशवाचि- भ्योऽण् । वुञादेरपवादः ॥ काच्छः । सैन्धवः ॥ मनुष्यतत्स्थयोर्वुञ् । ४ । २ । १३४ ॥ कच्छाद्यणोऽपवादः ॥ कच्छे जातादिः काच्छको मनुष्यः । काच्छकं हसितम् ॥ मनुष्येति किम् ? काच्छो गौः ॥ अपदातौ साल्वात् । ४ । २।१३५ ॥ साल्वशब्दस्य कच्छादि- त्वाद्वुञि सिद्धे नियमार्थमिदम् । अपदातावेवेति ॥ साल्वको ब्राह्मणः ॥ अपदातौ किम् ? साल्वः पदातिर्व्रजति ॥ गोयवाग्वोश्च ।४।२।१३६ ॥ साल्वाद्वुञ् । कच्छाद्यणोऽपवादः ॥ साल्वको गौः । साल्विका यवागूः । साल्वमन्यत् ॥ गर्तोत्तरपदाच्छः । ४ । २ । १३७ ॥ देशे । अणोऽपवादः । वृकगर्तीयम् । उत्तरपदग्रहणं बहुच्पूर्वनिरासार्थम् ॥ ^Bगहादिभ्यश्च ।४।२।१३८॥ छः स्यात् ॥ गहीयः ॥ मुखपार्श्वतसोर्लोपश्च * ॥ मुखतीयम् ॥ पार्श्वतीयम् । अव्ययानां भमात्रे टिलोपोऽस्यानित्यतां ज्ञापयितुमिदम् ॥ कुग्जनस्य परस्य च * ॥ जनकीयम् । परकीयम् ॥ देवस्य च * ॥ देवकीयम् ॥ स्वकीयम् ॥ ^Cवेणुकादिभ्यश्छण्वाच्यः * ॥ वैणुकीयम् । वैत्रकीयम् । औत्तरपदकीयम् ॥ प्राचां कटादेः । ४ । २ । १३९ ॥ प्राग्देशवाचिनः कटादेश्छः स्यात् । अणोऽपवादः ॥ कटनगरीयम् । कटघोषीयम् । कटपल्व- लीयम् ॥ राज्ञः क च ।४।२।१४० ॥ वृद्धत्वाच्छे सिद्धे तत्संनियोगेन कादेशमात्रं विधीयते । राजकीयम् ॥ वृद्धात्केकान्तखोपधात् । ४।२।१४१ ॥ अक इक एतदन्तात्खोपधाच्च
A कच्छ, सिन्धु, वर्णु, गन्धार, मधुमत्, कम्बोज, काश्मीर, साल्व, कुरु, अनुषण्ड, द्वीप, अनूप, अजवाह, विज्ञापक, कङ्कतुर, रङ्कु । इति कच्छादिः ॥ B गह, अन्तःस्थ, सम, विषम, मध्य, मध्यंदिन चरणे, उत्तम, अङ्ग, वङ्ग, मगध, पूर्वपक्ष, अपरपक्ष, अधमशाख, उत्तमशाख, एकशाख, समानशाख, एकग्राम, समानग्राम, एकवृक्ष, एकपलाश, इष्वग्र, इष्वनीक, अवस्कन्दन, कामप्रस्थ, खाडायन, काटेरणि, लावेरणि, सौमित्रि, शैशिरि, आसुत, दैवशर्मि, श्रौती, आर्हिसि, आमित्रि, व्याडि, वैजि, आध्याश्वि, आनुशंसि, शौङ्गि, आमिशर्मि, भौजि, वाराटकी, बाल्मीकि, क्षैमवृद्धि, आश्वत्थि, औगाहमानि, ऐकबिन्दवी, दन्ताग्र, हंस, तन्वग्र, उत्तर, अनन्तर, मुखपार्श्वतसोर्लोपः, जनपदयोः कुक्क, 'देवस्य च' 'वेणुकादिभ्यश्छण्' इति गहादिराकृतिगणः ॥ C वेणुकादिराकृतिगणो गहाद्यन्तर्गतत्वात् ॥
१ इतः पूर्वम् 'स्वस्य च' इत्यपि केनचिद् वर्धितम् । तन्मनोरमाविरुद्धमेव ॥ साकच्कस्वशब्दाद् गहा- देराकृतिगणत्वाच्छे स्वकीयम् । निरकच्कस्य तु स्वीयमिति बोध्यम् ॥