वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 249, कुल 835 में से
संदर्भ में पढ़ें( १९८ ) सिद्धान्तकौमुद्याम्- वा ठञ् स्यात्॥ नैशिकम्। नैशम्। प्रादोषिकम्। प्रादोषम्॥ श्वसस्तुट् च ।४।३।१५ ॥ श्वःशब्दाद्वञ् वा स्यात्तस्य तुडागमश्च ॥ ^Aद्वारादीनां च ।७।३।४ ॥ द्वार, स्वर, व्यल्काश, स्वस्ति, स्वर, स्फ्यकृत्, स्वादुमृदु, श्वस्, श्वन्, स्व एषां न वृद्धिरेजागमश्च ॥ शौवस्तिकम् ॥ ^Bसंधिवेलाद्यृतुनक्षत्रेभ्योऽण् । ४ । ३ । १६ ॥ संधिवेलादिभ्य ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्योऽण् स्यात् । संधिवेलायां भवं सांधिवेलम् । ग्रैष्मम् । तैषम् । संधिवेला, संध्या, अमावास्या, त्रयोदशी, चतुर्दशी पौर्णमासी, प्रतिपत् ॥ संवत्सरात् फलपर्वणोः* ॥ सांवत्सरं फलं पर्व वा । सांवत्सरिकमन्यत् ॥ प्रावृष एण्यः ।४।३।१७॥ प्रावृषेण्यः ॥ वर्षाभ्यष्ठक् ।४।३