वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 250, कुल 835 में से
संदर्भ में पढ़ेंविभाग उत्तरार्थः॥ प्राचां ग्रामनगराणाम् ।७।३।१४ ॥ दिशः परेषां नगरवाचिनां ग्रामवाचिनामज्ञानामवयवस्य च वृद्धिः ॥ पूर्वेषुकामशम्यां भवः पूर्वेषुकामशमः। नगरे—पूर्वपा- टलिपुत्रकः॥ पूर्वाह्नापराह्नाद्र्धार्मूलप्रदोषावस्कराद्वुञ् ।४।३।२८ ॥ पूर्वाह्नकः। अपरा- ह्नकः। आर्द्रकः। मूलकः। प्रदोषकः। अवस्करकः॥ पथः पन्थ च । ४। ३। २९ ॥ पथि जातः पन्थकः॥ अमावास्याया वा ।४।३।३०॥ अमावास्यकः। आमावास्यः॥ अ च ।४।३।३१ ॥ अमावास्यः॥ सिन्ध्वपकराभ्यां कन् ।४।३।३२ ॥ सिन्धुकः कच्छाद्यणि मनुष्यवुञि च प्राप्ते॥ अपकरकः। औत्सर्गिकेऽणि प्राप्ते॥ अणञौ च । ४। ३।३३ ॥ क्रमात् स्तः॥ सैन्धवः। आपकरः॥ श्रविष्ठाफल्गुन्यनुराधास्वातिवि- ष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक् । ४। ३। ३४ ॥ एभ्यो नक्षत्रवाचिभ्यः परस्य जातार्थप्रत्ययस्य लुक् स्यात् ॥ लुक् तद्धितलुकि ।४।२।४९ ॥ तद्धितलुकि सत्युपसर्जनस्त्रीप्रत्ययस्य लुक् स्यात् । श्रविष्ठासु जातः श्रविष्ठः। फल्गुनः इत्यादि॥ चित्रा- रेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम्॥* चित्रायां जाता चित्रा। रेवती। रोहिणी। आभ्यां 'लुक् तद्धितलुकीति' लुकि कृते पिप्पल्यादेराकृतिगणत्वात्पुनर्डीष् ॥ फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ॥* स्त्रियामित्येव। फल्गुनी। अषाढा॥ *श्रविष्ठाषाढाभ्यां छण्वक्तव्यः ॥ अस्त्रि- यामपि। श्राविष्ठीयः। आषाढीयः॥ जे प्रोष्ठपदानाम् ।७।३।१८ ॥ प्रोष्ठपदानामुत्तरपद- स्याचामादेरचो वृद्धिः स्याज्जातार्थे ञिति णिति किति च॥ प्रोष्ठपदासु जातः प्रोष्ठपादो माणवकः॥ जे इति किम् ? प्रोष्ठपदासु भवः प्रोष्ठपदः॥ बहुवचननिर्देशात्पर्यायोऽपि गृह्यते— भाद्रपदः॥ स्थानान्तगोशालखरशालाच्च । ४। ३। ३५ ॥ एभ्यो जातार्थप्रत्ययस्य लुक् स्यात्॥ गोस्थानः। गोशालः। खरशालः। 'विभाषासेनेति नपुंसकत्वे ह्रस्वत्वम्॥ वत्सशालाभिजिन्नक्षत्र्युक्शतभिषजो वा । ४। ३। ३६ ॥ एभ्यो जातार्थस्य लुग्वा स्यात्॥ वत्सशाले जातो वत्सशालः। वात्सशालः इत्यादि॥ जातार्थे प्रतिप्रसूतोऽण्वा *डिद्वक्तव्यः ॥ शतभिषः। शतभिषजः। शतभिषक्॥ नक्षत्रेभ्यो बहुलम् ।४।३।३७॥ जातार्थप्रत्ययस्य बहुलं लुक् स्यात्। रोहिणः। रौहिणः॥ कृतलब्धक्रीतकुशलाः । ४ । ३।३८॥ तत्रेत्येव॥ स्रुघ्ने कृतो लब्धः क्रीतः कुशलो वा सौघ्नः॥ प्रायभवः ।४।३।३९॥ तत्रेत्येव। स्रुघ्ने प्रायेण बाहुल्येन भवति सौघ्नः॥ उपजानूपकर्णोपनीवेष्ठक् । ४ । ३ । ४० ॥ औपजानुकः। औपकर्णिकः। औपनीविकः॥ संभूते ।४।३।४१॥ स्रुघ्ने संभवति सौघ्नः॥ कोशाड्डूञ् ।४।३।४२ ॥ कौशेयं वस्त्रम्॥ कालात्साधुपुष्प्यत्पच्यमानेषु ।४।३।४३॥ हेमन्ते साधुर्हेमन्तः प्राकारः। वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः। शरदि पच्यन्ते शारदाः शालयः॥ उप्ते च । ४। ३। ४४ ॥ हेमन्ते उप्यन्ते हैमन्ता यवाः॥ आश्वयुज्या वुञ् । ४।३।४५ ॥ ठञोऽपवादः॥ आश्वयुज्यामुप्ता आश्वयुजका माषाः॥ १ पूर्वेषुकामशाम्यादिः समुदायो ग्रामनामधेयम्। पूर्वपाटलिपुत्रादौ उत्तरपदमेव नगरमाहेति वृत्तिः।