भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 260, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 260

तद्धितेषु ठगधिकारप्रकरणम् । ( २०९ ) ओजसा वर्तते औजसिकः शूरः । साहसिकश्चौरः । आम्भसिको मत्स्यः ॥ तत्प्रत्यनुपूर्वमी- पलोमकूलम् । ४।४।२८ ॥ द्वितीयान्तादस्माद्वर्तत इत्यस्मिन्नर्थे ठक् स्यात् ॥ क्रियाविशेष- णत्वाद्वितीया ॥ प्रतीपं वर्तते प्रातीपिकः । आन्वीपिकः । प्रातिलोमिकः । आनुलोमिकः । प्रातिकूलिकः । आनुकूलिकः ॥ परिमुखं च । ४।४।२९ ॥ परिमुखं वर्तते पारिमुखिकः । चात्पारिपार्श्विकः ॥ प्रयच्छति गर्ह्यम् । ४।४।३० ॥ द्विगुणार्थं द्विगुणं तत्प्रयच्छति द्वैगु- णिकः । त्रैगुणिकः ॥ वृद्धेर्वृधुषिभावो वक्तव्यः * ॥ वार्धुषिकः ॥ कुसीददशैकादशात् ष्ठन्ष्ठचौ । ४।४।३१ ॥ गर्ह्यार्थाभ्यामाभ्यामेतौ स्तः प्रयच्छतीत्यर्थे ॥ कुसीदं वृद्धिस्तदर्थं द्रव्यं कुसीदं तत्प्रयच्छति कुसीदिकः । कुसीदिकी । एकादशार्थत्वादेकादश ते च ते वस्तुतो दश चेति विग्रहेऽकारः समासान्त इहैव सूत्रे निपात्यते । दशैकादशिकः । दशैकादशिकी । दशैकादशान्प्रयच्छतीत्युत्तमर्ण एवेहापि तद्धितार्थः ॥ उञ्छति । ४।४।३२ ॥ बदराण्युञ्छति बादरिकः ॥ रक्षति । ४।४।३३ ॥ समाजं रक्षति सामाजिकः ॥ शब्ददर्दुरं करोति । ४ । ४।३४ ॥ शब्दं करोति शाब्दिकः । दार्दुरिकः ॥ पक्षिमत्स्यमृगान्धन्ति । ४।४।३५ ॥ स्वरूपस्य पर्यायाणां विशेषाणां च ग्रहणम् । मत्स्यपर्यायेषु मीनस्यैव । पक्षिणो हन्ति पाक्षिकः। शाकुनिकः । मायूरिकः । मात्स्यिकः । मैनिकः । शाकुलिकः । मार्गिकः । हारिणिकः । सारङ्गिकः ॥ परिपन्थं च तिष्ठति । ४।४।३६ ॥ अस्माद्द्वितीयान्तात्तिष्ठति हन्ति चेत्यर्थे ठक् स्यात् ॥ पन्थानं वर्जयित्वा व्याप्य वा तिष्ठति पारिपन्थिकश्चौरः । परिपन्थं हन्ति पारिपन्थिकः ॥ माथोत्तरपदपदव्यनुपदं धावति । ४ । ४ । ३७ ॥ दण्डाकारो माथः पन्थाः दण्डमाथः । दण्डमाथं धावति दाण्डमाथिकः । पादविकः । आनुपदिकः ॥ आक्र- न्दाद्वश्च । ४।४।३८ ॥ अस्माट्ठञ् स्याच्चाट्ठक् धावतीत्यर्थे ॥ आक्रन्दं दुःखिनां रोदनस्थानं धावति आक्रन्दिकः ॥ पदोत्तरपदं गृह्णाति । ४।४।३९ ॥ पूर्वपदं गृह्णाति पौर्वपदिकः । औत्तरपदिकः ॥ प्रतिकण्ठार्थललामं च । ४।४।४० ॥ एभ्यो गृह्णात्यर्थे ठक् स्यात् ॥ प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः । आर्थिकः । लालामिकः ॥ धर्मं चरति ।४।४।४१ ॥ धार्मिकः ॥ अधर्माच्चेति वक्तव्यम् * ॥ आधार्मिकः ॥ प्रतिपथमेति ठञ् ।४।४।४२ ॥ प्रतिपथमेति प्रातिपथिकः ॥ समवायान्समावैति । ४ । ४ । ४३ ॥ सामवायिकः । सामूहिकः ॥ परिषदो ण्यः । ४ । ४ । ४४ ॥ परिषदं समवैति पारिषद्यः ॥ सेनाया वा । । ४ । ४ । ४५ ॥ ण्यः स्यात्पक्षे ठक् ॥ सैन्याः सैनिकाः ॥ संज्ञायां ललाटकुक्कुट्यौ पश्यति । ४ । ४ । ४६ ॥ ललाटं पश्यति लालाटिकः सेवकः । कुक्कुटीशब्देन तत्पातार्हः स्वल्पदेशो लक्ष्यते ॥ कौक्कुटिको भिक्षुः ॥ तस्य धर्म्यम् । ४ । ४।४७ ॥ आपणस्य धर्म्य- १ तथा च मार्गपर्याये त्रिकाण्डशेषः-‘ पन्थास्तु शुक्लमो वहः । वाटः पथश्च माथश्च’ इति ॥ २ बहु- वचनार्थनिर्देशोयं तदाह-सामूहिक इति ॥ १४-१