वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 261, कुल 835 में से
संदर्भ में पढ़ें( २१० ) सिद्धान्तकौमुद्याम्- मापर्णिकम् ॥ अण् Aमहिष्यादिभ्यः । ४ । ४ । ४८ ॥ महिष्या धर्म्यं माहिषम् । याजमा- नम् ॥ ऋतोऽञ् । ४ । ४ । ४९ ॥ यातुर्धर्म्यं यात्रम् ॥ नराच्चेति वक्तव्यम् * ॥ नरस्य धर्म्यं नारी ॥ विशासितुरिड्लोपश्चाश्च वक्तव्यः * ॥ विशासितुर्धर्म्यं वैशस्त्रम् ॥ विभाज- यितुर्णिंलोपश्चाश्च वाच्यः * ॥ विभाजयितुर्धर्म्यं वैभाजित्रम् ॥ अवक्रयः । ४।४।५० ॥ षष्ठ्यन्ताट्ठक् स्यादवक्रयेऽर्थे ॥ आपणस्यावक्रय आपणिकः । राजग्राह्यं द्रव्यमवक्रयः ॥ तदस्य पण्यम् ।४।४।५१ ॥ अपूपाः पण्यमस्य आपूपिकः ॥ लवणाट्ठञ् । ४ । ४।५२ ॥ लावणिकः ॥ Bकिसरादिभ्यः ष्ठन् । ४ । ४ । ५३ ॥ किसरं पण्यमस्य किसरिकः । षित्त्वान्ङीष् । किसरिकी । किसर, उशीर, नलद इत्यादि किसरादयः सर्वे सुगन्धिद्रव्य- विशेषवाचिनः ॥ शलालुनोऽन्यतरस्याम् । ४ । ४ । ५४ ॥ ष्ठन्स्यात् पक्षे ठक् ॥ शला- लुकः । शलालुकी । शालालुकः । शालालुकी । शलालुः सुगन्धिद्रव्यविशेषः ॥ शिल्पम् ।४।४।५५ ॥ मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः ॥ मड्डुकझर्झरादणन्यतरस्याम् । ४ । ।४।५६ ॥ मड्डुकवादनं शिल्पमस्य माड्डुकः । माड्डुकिकः । झार्झरः । झार्झरिकः ॥ प्रहरणम् । ।४।४।५७ ॥ तदस्येत्येव । असिः प्रहरणमस्य आसिकः । धानुष्कः ॥ परश्वधाट्ठञ् ।४।४। ५८ ॥ पारश्वधिकः ॥ शक्तियष्ट्योरीकक् । ४ । ४ । ५९ ॥ शाक्तीकः । याष्टीकः ॥ अस्ति नास्ति दिष्टं मतिः । ४।४।६० ॥ तदस्येत्येव ॥ अस्ति परलोक इत्येवं मति- र्यस्य स आस्तिकः । नास्तीति मतिर्यस्य स नास्तिकः । दिष्टमिति मतिर्यस्य स दैष्टिकः ॥ शीलम् ।४।४।६१ ॥ अपूपभक्षणं शीलमस्य आपूपिकः ॥ Cछत्रादिभ्यो णः ।४।४। ६२ ॥ गुरोर्दोषणामावरणं छत्रं तच्छीलमस्य छात्रः ॥ कार्मस्ताच्छील्ये ।६।४।१७२॥ कार्म इति ताच्छील्ये णे टिलोपो निपात्यते ॥ कर्मशीलः कार्मः । 'नस्तद्धिते' इत्येव सिद्धे 'अण्कार्यं ताच्छीलिके णेऽपि' । तेन चौरी तापसीत्यादि सिद्धम् ॥ ताच्छील्ये किम् ? कार्म्मणः ॥ कर्माध्ययने वृत्तम् । ४ । ४ । ६३ ॥ प्रथमान्तात्षष्ठ्यर्थे ठक् स्यादध्ययने वृत्ता या क्रिया सा चेत्प्रथमान्तस्यार्थः । ऐकान्यिकः । यस्याध्ययने प्रवृत्तस्य परीक्षाकाले विपरी- तोच्चारणरूपं स्खलितमेकं जातं सः ॥ बह्वचपूर्वपदाट्ठञ् । ४ । ४ । ६४ ॥ प्राग्विशये ॥ द्वादशान्यानि कर्माणिध्ययने वृत्तान्यस्य द्वादशान्यिकः । द्वादशापपाठा अस्य जाता इत्यर्थः ॥ हितं भक्षाः । ४ । ४ । ६५ ॥ अपूपभक्षणं हितमस्मै आपूपिकः ॥ तदस्मै दीयते नियु- क्तम् । ४ ।४।६६ ॥ अग्रभोजनं नियतं दीयते अस्मै आग्रभोजनिकः ॥ श्राणामां- सौदनाट्टिठन् ।४।४।६७ ॥ श्राणा नियुक्तं दीयतेऽस्मै श्राणिकः । श्राणिकी ॥ मांसौदन- A महिषी, प्रजापति, प्रजावती, प्रलेपिका, विलेपिका, अनुलेपिका, पुरोहित, मणिपाली, अनुचारक, होतु, यजमान । इति महिष्यादिः ॥ B किसर ( किन्नर ), नरद, नलद, स्थागल, तगर, गुग्गुल, उशीर, हरिद्रा, हरिद्रु, पर्णी। इति किसरादिः॥ C छत्र, शिक्षा, प्ररोह, स्था, बुभुक्षा, चुरा, तितिक्षा, उपस्थान, कृषि, कर्मन्, विश्रन्था, तपस्, सत्य, अनृत, विशिखा, भक्षा, उदस्थान, पुरोडा, विक्षा, चुक्षा, मन्द्र । इति छत्रादिः ॥