वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 262, कुल 835 में से
संदर्भ में पढ़ेंग्रहणं संघातविगृहीतार्थम् । मांसौदनिकः । मांसिकः । औदनिकः ॥ भक्तादणन्यतर- स्याम् । ४ । ४ । ६८ ॥ पक्षे ठक् ॥ भक्तमस्मै नियुक्तं दीयते भाक्तः । भाक्तिकः ॥ तत्र नियुक्तः । ४ । ४ । ६९ ॥ आकरे नियुक्त आकरिकः ॥ अगारान्ताट्ठन् । ४ । ४ । ७० ॥ देवागारे नियुक्तो देवागारिकः ॥ अध्यायिन्यदेशकालात् । ४ । ४ । ७१ ॥ निषिद्धदेश- कालवाचकाट्ठक् स्यादध्येतरि ॥ श्मशानेऽधीते श्मशानिकः । चतुर्दश्यामधीयते चातुर्द- शिकः ॥ कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति । ४ । ४ । ७२ ॥ तत्रेत्येव । वंशक- ठिने व्यवहरति वांशकठिनिकः । वंशा वेणवः कठिना यस्मिन्देशे स वंशकठिनस्तस्मिन्देशे या क्रिया यथानुष्ठेया तां तथैवानुतिष्ठतीत्यर्थः । प्रास्तारिकः । सांस्थानिकः ॥ निकटे वसति । ४ । ४ । ७३ ॥ नैकटिको भिक्षुः ॥ आवसथात् ष्वल् । ४ । ४ । ७४ ॥ आवसथे वसति आवसथिकः ॥ षित्त्वान्ङीष् आवसथिकी ॥ आकर्षात्पर्पादेर्भस्त्रादिभ्यः कुसीदसूत्राच्च । आवसथात्किसरादेः षितः षडेते ठगधिकारे ॥ षडिति सूत्रषट्केन विहिता इत्यर्थः । प्रत्ययास्तु सप्त ॥ इति ठगधिकारप्रकरणम् । अथ प्राग्वितीयप्रकरणम् । प्राग्विताद्यत् । ४ । ४ । ७५ ॥ 'तस्मै हितमित्यतः' प्राक् यदधिक्रियते ॥ तद्वहति रथ- युगप्रासङ्गम् । ४ । ४ । ७६ ॥ रथं वहति रथ्यः । युग्यः । वत्सानां दमनकाले स्कन्धे काष्ठ- मासज्यते स प्रासङ्गः । तं वहति प्रासङ्ग्यः ॥ धुरो यड्ढकौ । ४ । ४ । ७७ ॥ 'हलि चेति दीर्धे प्राप्ते-॥ न भकुर्छुराम । ८ । २ । ७९ ॥ भस्य कुर्छुरोश्चोपधाया दीर्घो न स्यात् । धुर्यः धौरेयः ॥ खः सर्वधुरात् । ४ । ४ । ७८ ॥ सर्वधुरं वहतीति सर्वधुरीणः ॥ एकधुराल्लुक्च । । ४ । ४ । ७९ ॥ एकधुरं वहति एकधुरीणः ॥ एकधुरः ॥ शकटादण् । ४ । ४ । ८० ॥ शकटं वहति शाकटो गौः ॥ हलसीराट्ठक् । ४ । ४ । ८१ ॥ हलं वहति हालिकः । सैरिकः ॥ सं- ज्ञायां जन्या । ४ । ४ । ८२ ॥ जनी वधूः तां वहति प्रापयति जन्या ॥ विध्यत्यधनुषा । । ४ । ४ । ८३ ॥ द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्यान्न चेत्तत्र धनुः करणम् ॥ पादौ विध्यन्ति पद्याः शर्कराः ॥ धनगणं लब्धा । ४ । ४ । ८४ ॥ तृन्नन्तमेतत् ॥ धनं लब्धा धन्यः । गणं लब्धा गण्यः ॥ अन्नाण्णः । ४ । ४ । ८५ ॥ अन्नं लब्धा आन्नः ॥ वशं गतः । ४ । ४ । ८६ ॥ वश्यः परेच्छानुचारी ॥ पदमस्मिन्वह्यम् । ४ । ४ । ८७ ॥ पद्यः कर्दमः । नातिशुष्क इत्यर्थः ॥ मूलमस्याबर्हि । ४ । ४ । ८८ ॥ आबर्हणमाबर्हं उत्पाटनं तदस्यास्तीत्याबर्हि । मूल- माबर्हि येषां ते मूल्या मुद्गाः ॥ संज्ञायां धेनुष्या । ४ । ४ । ८९ ॥ धेनुशब्दस्य षुगागमो यत्