वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 274, कुल 835 में से
संदर्भ में पढ़ेंयथापुरयोः पर्यायेण । ७ । ३ । ३१ ॥ नञः परयोरेतयोः पूर्वोत्तरपदयोः पर्यायेणादेरचो वृद्धिर्निदादौ । अयथातथाभावः आयथातथ्यम् । अयाथातथ्यम् । आयथापुर्यम् । अयाथा- पुर्यम् । आपादसमाप्तेर्भावकर्माधिकारः ॥ ^Aचतुर्वर्णादीनां स्वार्थ उपसंख्यानम् * ॥ चत्वारो वर्णाश्चातुर्वर्ण्यम् । चातुराश्रम्यम् । त्रैस्वर्यम् । षाड्गुण्यम् । सैन्यम् । सान्निध्यम् । सामीप्यम् । औपम्यम् । त्रैलोक्यमित्यादि । सर्वे वेदाः सर्ववेदास्तानधीते सर्ववेदः 'सर्वादेरिति लुक् । स एव सार्ववेद्यः ॥ चतुर्वेदस्योभयपदवृद्धिश्च * ॥ चतुरो वेदानधीते चतुर्वेदः स एव चातुर्वेद्यः ॥ चतुर्विद्यस्येति पाठान्तरम् । चतुर्विद्य एव चातुर्विद्यः ॥ स्तेनाद्यन्नलोपश्च । ।५।१।१२५ ॥ नेति संघातग्रहणम् । स्तेन चौय पचाद्यच् । स्तेनस्य भावः कर्म वा स्तेयम् । स्तेनादिति योगं विभज्य स्तैन्यमिति ष्यञन्तमपि केचिदिच्छन्ति ॥ सख्युर्यः ।५।१।१२६ ॥ सख्युर्भावः कर्म वा सख्यम् ॥ दूतवणिग्भ्यां च * ॥ दूतस्य भावः कर्म वा दूत्यम् । वणिज्यमिति काशिका ॥ माधवस्तु वणिज्याशब्दः स्वभावात् स्त्रीलिङ्गः । भाव एव चायं प्रत्ययो न तु कर्मणीत्याह ॥ भाष्ये तु दूतवणिग्भ्यां चेति नास्त्येव ॥ ब्राह्मणादित्वा- द्वाणिज्यमपि ॥ कपिज्ञात्योर्ढक् ।५।१।१२७ ॥ कापेयम् । ज्ञातेयम् ॥ पत्यन्तपुरो- ^Bहितादिभ्यो यक् ।५।१।१२८ ॥ सैनापत्यम् । पौरोहित्यम् ॥ राजाऽसे * ॥ राजश- ब्दोऽसमासे यकं लभत इत्यर्थः । राज्ञो भावः कर्म वा राज्यम् । समासे तु ब्राह्मणादित्वात् ष्यञ् । आधिराज्यम् ॥ प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् ।५।१।१२९ ॥ प्राणभृज्जाति-आश्वम् । औष्ट्रम् । वयोवचने-कौमारम् । कैशोरम् । औद्गात्रम् । औन्नेत्रम् । सौष्ठवम् । दौष्ठवम् ॥ हायनान्तयुवादिभ्योऽ^Dण् ।५।१।१३० ॥ द्वैहायनम् । त्रैहाय- नम् । यौवनम् । स्थाविरम् ॥ श्रोत्रियस्य यलोपश्च * ॥ श्रौत्रम् । कुशलचपलनिपुणपिशु- नकुतूहलक्षेत्रज्ञा युवादिषु ब्राह्मणादिषु च पठ्यन्ते । कौशल्यम् । कौशालमित्यादि ॥ इग- A चतुर्वर्ण, चतुराश्रम, सर्वविद्य, त्रिलोक, त्रिस्वर, षड्गुण, सेना, अनन्तर, संनिधि, समीप, उपमा, सुख, तदर्थ, इतिह, मणिक । इति चतुर्वर्णादिः ॥ B पुरोहित, 'राजाऽसे' ग्रामिक, पिण्डिक, सुहित, बाल, मन्द, खण्डिक, दण्डिक, वर्मिक, कर्मिक, धर्मिक, शिलिक, सूतिक, मूलिक, तिलक, अञ्जलिक, अञ्जनिक, ऋषिक, पुत्रिक, अविक, छत्रिक, पर्णिक, पथिक, चर्मिक, प्रंतिक, सारथि, आस्तिक, सूत्रिक, संरक्ष, सूत्रक, नास्तिक, अजानिक, शाङ्कर, नागर, चूडिक । इति पुरोहितादिः ॥ C उद्गातृ, उन्नेतृ, प्रतिहर्तृ, प्रशास्तृ, होतृ, पोतृ, हर्तृ, रथगणक, पत्तिगणक, सुष्ठु, दुष्ठु, अध्वर्यु, वधू, सुभग, मन्त्र । इत्युद्गात्रादिः ॥ D युवन्, स्थविर, होतृ, यजमान, 'पुरुषोऽसे' भ्रातृ, कुतुक, श्रवण, कटुक, कमण्डलु, कुस्त्री, सुस्त्री, दुःस्त्री, सुहृदय, दुर्हृदय, सहृद्, दुहृद्, सुभ्रातृ दुर्भ्रातृ, वृषल, परिव्राजक, सब्रह्मचारिन्, अनुशंस, 'हृदयासे' कुशल, चपल, निपुण, पिशुन, कुतूहल, क्षेत्रज्ञ, 'श्रोत्रियस्य यलोपश्च' इति । युवादिः । १ अपिना दौत्यम् । अत एव 'यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् ॥' इति मार्कण्डेयपुराणम् ॥