भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 273, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 273

( २२२ ) सिद्धान्तकौमुद्याम्- मथुरायामिव मथुरावत् स्रुघ्ने प्रकारः १ । चैत्रस्येव चैत्रवन्मैत्रस्य गावः ॥ तदर्हम् । ५ । १ । ११७ ॥ विधिमर्हति विधिवत्पूज्यते ॥ क्रियाग्रहणं मण्डूकप्लुत्यानुवर्तते । तेनेह न-राजा- नमर्हति छत्रम् ॥ तस्य भावस्त्वतलौ । ५ । १ । ११९ ॥ प्रकृतिजन्यबोधे प्रकारो भावः ॥ गोर्भावो गोत्वम् । गोता । त्वान्तं क्लीबम्, तलन्तं स्त्रियाम् ॥ आ च त्वात् । ५ । १ । १२० ॥ 'ब्रह्मणस्त्वः' इत्यतः प्राक् त्वतलावधिक्रियेते । अपवादैः सह समावेशार्थं गुणवचनादिभ्यः कर्मणि विधानार्थं चेदम् । चकारो नञ्स्नञ्भ्यामपि समावेशार्थः । स्त्रिया भावः, स्त्रैणम् । स्त्रीत्वम् । स्त्रीता । पौंस्नम् । पुंस्त्वम् । पुंस्ता ॥ न नञ्पूर्वात्तत्पुरुषादचतुरसंगतल- वणवटुयुधकतरसलसेभ्यः । ५ । १ । १२१ ॥ इतः परं ये भावप्रत्ययास्ते नञ्तत्पुरुषात्न स्युरचतुरादीन्व्र्जयित्वा ॥ अपतित्वम् । अपटुत्वम् ॥ नञ्पूर्वात्किम् ? बार्हस्पत्यम् ॥ तत्पुरुषात्किम् ? नास्य पटवः सन्तीत्यपटुस्तस्य भावः आपटवम् ॥ अचतुरिति किम् ? आच- तुर्यम् । आसङ्गत्यम् । आलवण्यम् । आवट्यम् । आयुध्यम् । आकतर्यम् । आरस्यम् । आलस्यम् ॥ Aपृथ्वादिभ्य इमनिज्वा । ५ । १ । १२२ ॥ वावचनमणादिसमावेशार्थम् ॥ र ऋतो हलादेर्लघोः । ६ । ४ । १६१ ॥ हलादेर्लघोर्ऋकारस्य रः स्यात् इष्ठेमेयस्सु ॥ टेः । ६।४।१५५ ॥ भस्य टेर्लोपः स्यादिष्टेमेयस्सु ॥ पृथोर्भावः प्रथिमा । पार्थवम् । म्रदिमा । म्रदवम् ॥ वर्णदृढादिभ्यः B ष्यञ् । ५ । १ । १२३ ॥ चादिमनिच् ॥ शौक्ल्यम् ॥ शुक्लिमा । द्राढ्यम् । पृथुमृदुभृशकृशदृढपरिवृढानामेव रत्वम् । द्रढिमा ॥ षो ङीषर्थः-औचिती । याथाकामी ॥ गुणवचनब्राह्मणादिभ्यः C कर्मणि च । ५ । १ । १२४ ॥ चाद्भावे ॥ जडस्य कर्म भावो वा जाड्यम् । मूढस्य भावः कर्म वा मौढ्यम् । ब्राह्मण्यम् ॥ अर्हतो नुम् च * ॥ अर्हतो भावः कर्म वा आर्हन्त्यम् । आर्हन्ती । ब्राह्मणादिराकृतिगणः ॥ यथातथा- A पृथु, मृदु, महत्, पटु, तनु, लघु, बहु, साधु, आशु, उरु, गुरु, बहुल, खण्ड, दण्ड, चण्ड, अकिंचन, बाल, वत्स, होड, पाक, मन्द, स्वादु, ह्रस्व, दीर्घ, प्रिय, वृष, ऋजु, क्षिप्र, क्षुद्र, अणु । इति पृथ्वादिः ॥ B दृढ, वृद्ध, परिवृढ, भृश, कृश, वक्र, शुक्र, चुक्र, आम्र, कृष्ट, लवण, ताम्र, शीत, उष्ण, जड, बधिर, पण्डित, मधुर, मूर्ख, मूक, स्थिर, 'वेर्यान्तान्मतिमनःशारदानाम्' 'समो मतिमनसोः' जवन । इति दृढादिः ॥ C ब्राह्मण, वाडव, माणव, 'अर्हतो नुम् च' चोर, धूर्त, आराधय, विराधय, अपराधय, उपराधय, एकभाव, द्विभाव, त्रिभाव, अन्यभाव, अक्षेत्रज्ञ, संवादिन्, संवेशिन्, संभाषिन्, बहुभाषिन्, शीर्षघातिन्, विघातिन्, समस्थ, विषमस्थ, परमस्थ, मध्यस्थ, अनीश्वर, कुशल, चपल, निपुण, पिशुन, कुतूहल, क्षेत्रज्ञ, विश्व, बालिश, अलस, दुःपुरुष, कापुरुष, राजन्, गणपति, अधिपति, गड्डुल, दायाद, विशस्ति, विषम, विपात, निपात, 'सर्ववेदादिभ्यः स्वार्थे, 'चतुर्वेदस्योभयपदवृद्धिश्च,' शौटीर, ब्राह्मणादिराकृति- गणः । तेन औचित्यमित्यादि सिद्धम् ॥ १ प्रकार इति ॥ मुख्यविशेष्यतानिरूपितप्रकारताश्रय इत्यर्थः ॥ स च प्रवृत्तिनिमित्तमेव । तत्त्वं च यं विशेषणतया बुद्धिस्थीकृत्य विशेष्यभूतार्थबोधनार्थं शब्दस्य प्रवृत्तिस्तत्तत्त्वम् । क्वचित् प्रकारस्य तत्त्वम् यथा गवादिपदे । क्वचिच्च संसर्गस्यैव तत्त्वम् । यथा औपगवराजपुरुषपाचकादौ ॥ अत एव 'कृत्तद्धितसमा- सेभ्यः संबन्धाभिधानं भावप्रत्ययेन' । इति हरिणा टीकायामुक्तम् ॥