वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 316, कुल 835 में से
संदर्भ में पढ़ेंआमेतः । ३।४।९० ॥ लोट् एकारस्याम् स्यात् ॥ एधताम् ॥ एधेताम् । एधन्ताम् ॥ सवाभ्यां वामौ ।३।४।९१ ॥ सवाभ्यां परस्य लोडेतः क्रमाद् अम् एतौ स्तः ॥ एधस्व । एधेथाम् । एधध्वम् ॥ एत ऐ । ३।४।९३ ॥ लोडोत्तमस्य एत ऐ स्यात् । आमोऽपवादः ॥ एधै । एधावहै । एधामहै ॥ आडजादीनाम् । ६।४।१०२ ॥ अजादीनामाट् स्याल्लुङा- दिषु । अटोऽपवादः ॥ आटश्च ॥ ऐधत । ऐधेताम् । ऐधन्त ॥ ऐधथाः । ऐधेथाम् । ऐध- ध्वम् ॥ ऐधे । ऐधावहि । ऐधामहि ॥ लिङः सीयुट् । ३।४।१०२॥ सलोपः । एधेत । एधे- याताम् ॥ झस्य रन् । ३।४।१०५ ॥ लिङो झस्य रन् स्यात् ॥ एधेरन् ॥ एधेथाः । एधेया- थाम् । एधध्वम् ॥ इटोऽत् । ३।४।१०६ ॥ लिडादेशस्येटोऽत्स्यात् ॥ एधेय । एधेवहि । एधेमहि ॥ आशीर्लिङि आर्धधातुकत्वात् लिङः सलोपो न । सीयुट्सुटोः प्रत्ययावयवत्वात्षत्वम् । एधिषीष्ट । एधिषीयास्ताम् । एधिषीरन् ॥ एधिषीष्ठाः । एधिषीयास्थाम् । एधिषीध्वम् ॥ एधि- षीय । एधिषीवहि । एधिषीमहि ॥ ऐधिष्ट । ऐधिषाताम् ॥ आत्मनेपदेष्वनतः । ७।१।५ ॥ अनकारात्परस्यात्मनेपदेषु झस्य अत् इत्यादेशः स्यात् ॥ ऐधिषत ॥ ऐधिष्ठाः । ऐधिषाथाम् । इणः षीध्वंलुङ्लिटां धोऽङ्गात् ॥ ऐधिढ्वम् ॥ [ इङ्ङिन एव इणिह गृह्यते इति मते तुँ ऐधि- ध्वम् । ] ढधयोर्वस्य मस्य च द्वित्वविकल्पात्षोडश रूपाणि । ऐधिषि । ऐधिष्वहि । ऐधि- ष्महि ॥ ऐधिष्यत । ऐधिष्येताम् । ऐधिष्यन्त ॥ ऐधिष्यथाः । ऐधिष्येथाम् । ऐधिष्यध्वम् ॥ ऐधिष्ये । ऐधिष्यावहि । ऐधिष्यामहि ॥ उदात्तत्वाद्वलादेरिट् ॥ प्रसँङ्गादनुदात्ताः संगृह्यन्ते ॥
१ एधिषीध्वमिति । इटो ध्वंशब्दभक्ततयाङ्गस्येणन्तत्वाभावेन मूर्धन्याभावः । २ ऐधिढ्वमिति । “ऐध् इँस् ध्वम्” इत्यत्र ध्वमो लुङो वा प्रत्ययस्य एधधातोर्विहितत्वेन एधादिसमुदायः “ऐधिस्” इति ध्वमि प्रत्यये परे अङ्गसंज्ञको जात इति “धि च” इति सलोपोत्तरमेकदेशविकृतन्यायेन “ऐधि” इति भागस्याङ्गत्वं वर्तत एवेति ढत्वं भवत्येवेति बोध्यम् ॥ वेदाङ्गप्रकाशकर्त्रा (दयानन्देन) तु “सलो- पस्य स्थानिवत्त्वेनाङ्गस्येणन्तत्वव्याघातान्नात्र ढत्वप्राप्तिः”—इत्युक्तम् । तत्तु व्याकरणरहस्यानभिज्ञत्वसूचकम्, “स्थानिवत्” इति सूत्रेण स्थानिवद्भावविषये आदेशप्रयुक्तवारणे तु “नायकः” इत्यादावायाद्यादे- शानुपपत्तिरिति भूयानुपप्लवः स्यात् । तस्मादत्र स्थानिवद्भावेनापि आदेशप्रयुक्तकार्यस्यावारणाद् इणन्तत्वनि- मित्तं ढत्वं भवत्येवेति बोध्यम् ॥ इति दाधिमथाः ॥ ३ इति मते त्विति । “विभाषेटः” इत्युत्तरसूत्रे इणः परस्येटो ग्रहणेन तत्रानुवर्तमानम् “इण्” इति पदमवश्यमिडतिरिक्तपरमिति स्वीकार्यमिति “इणः षीध्वम्” इति पूर्वसूत्रेऽपि तथैव युक्तमिति तेषां भावः ॥ अत्रारुचिबीजं तु भाष्येऽस्यादर्शनम् । सूत्रान्तरस्थेन गोबलीवर्दन्यायग्रहणे च न दृढतरं मानम् । एतच्च तुना सूचितम् ॥ ४ षोडश रूपा- णीति । मतभेदेन ढत्वधत्वयोर्विकल्पाद् द्वे रूपे । उभयत्रापि “अनचि च” इति ढकारधकारयोर्द्वित्वे च- त्वारि रूपाणि । चतुर्ष्वपि “मय इति पञ्चमी यण इति षष्ठी” इति पक्षे “यणो मयो द्वे वाच्ये” इति वार्तिकेन वकारस्य द्वित्वे अष्टौ रूपाणि । अष्टास्वपि “अनचि च” इति मकारस्य द्वित्वे उक्ता संख्येति भावः॥ ५ प्रसङ्गादिति । प्रसङ्गत्वं चाऽनन्तराभिधानप्रयोजकशिष्यजिज्ञासाजनकज्ञानविषयत्वम् ॥ संगृह्यन्ते इति । मयेति शेषः । संग्रहत्वं नाम भिन्नस्थलीयवस्तुजातानामेकत्र करणम् ॥