वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 315, कुल 835 में से
संदर्भ में पढ़ें( २६४ ) सिद्धान्तकौमुद्याम्- निर्दिष्टं यद्गुणेन च। यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि ॥ १ ॥' इति ॥ एतच्चेहैवैकाज्- ग्रहणेन ज्ञाप्यते ॥ ऐच इत्येवैकत्वविवक्षया तद्वतो ग्रहणेन च सिद्धे एकग्रहणसामर्थ्यादने- काच उपदेशो व्याववर्त्यते । तेन वधेर्हन्त्युपदेशे एकाचोऽपि न निषेधः । आदेशोपदेशोऽने- काच्त्वात् ॥ अनुदात्ताश्चानुपदमेव संगृहीष्यन्ते ॥ एधांचकृषे । एधांचक्राथे ॥ इणः षीध्वं- लुङ्लिटां धोऽङ्गात् । ८ । ३ । ७८ ॥ इणन्तादङ्गात्परेषां षीध्वंलुङ्लिटां धस्य मूर्धन्यः स्यात् ॥ एधांचकृढ्वे । एधांचक्रे । एधांचकृवहे। एधांचकृमहे ॥ एधांबभूव ॥ अनुप्रयोगसा- मर्यादस्तैर्भूभावो न । अन्यथा हि कृञ् चानुप्रयुज्यत इति कृम्विति