वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 321, कुल 835 में से
संदर्भ में पढ़ें( २७० ) सिद्धान्तकौमुद्याम्- ।७।२।३ ॥वदेर्व्रजेर्हलन्तस्य चाङ्गस्याचः स्थाने वृद्धिः स्यात्सिचि परस्मैपदेषु ॥ इति प्राप्ते-॥ नेटि ।७।२।४ ॥ इडादौ सिचि प्रागुक्तं न स्यात्॥ मा भवानतीत् । अतिष्टाम् । अतिषुः ॥ १ ॥ चिती संज्ञाने । चेतति । चिचेत । अचेतीत् । अचेतिष्टाम् । अचेतिषुः ॥ २ ॥ च्युतिर् आसेचने । आसेचनमार्द्रीकरणम् । आदीषदर्थेभिव्याप्तौ च । इरँ इत्संज्ञा वाच्या * ॥ च्योतति । चुच्योत ॥ इरितो वा । ३।१।५७ ॥ इरितो धातोश्च्लेरङ् वा स्यात्परस्मैपदे परे । अच्युतत् । अच्योतीत् ॥ ३ श्च्युतिर् क्षरणे । श्च्योतति । चुश्च्योत । अश्च्युतत् । अश्च्योतीत् ॥ ४ ॥ यकाररहितोऽप्ययम् । श्चोतति ॥ ५ ॥ मन्थ विलोडने । विलोडनं प्रतिघातः । मन्थति । ममन्थ । यासुटः 'किदाशिषीति कित्त्वाद् 'अनिदितामिति न- लोपः-मथ्यात् ॥ ६ ॥ कुथि पुथि लुथि मथि हिंसासंक्लेशनयोः । इदित्त्वान्नलोपो न । कुन्ध्यात् । मन्ध्यात् ॥ १० ॥ षिधु गत्याम् । सेधति । सिषेध । सेधिता । असे- धीत् । सात्पदाद्योरिति निषेधे प्राप्ते-॥ उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभ- तिस्थासेनयसेधसिचसञ्जस्वञ्जाम् । ८।३।६५ ॥ उपसर्गात्स्थानिमित्तादेषां सस्य षः स्यात् ॥ सदिरप्रतेः।८।३।६६ ॥ प्रतिभिन्नादुपसर्गात्सदेः सस्य षः स्यात् ॥ स्तन्भेः । ८।३।६७ ॥ स्तन्भेः सौत्रस्य सस्य षः स्यात् ॥ योगविभाग उत्तरार्थः ॥ किंच-अप्रतेरिति नानुवर्तते । 'बाहुप्रतिष्टम्भविवृद्धमन्युः' ॥ अवाच्चालम्बनाविदूर्ययोः ।८।३।६८ ॥ अवात्स्तन्भेरेतयोरर्थयोः षत्वं स्यात् ॥ वेश्च स्वनो भोजने ।८।३।६९ ॥ व्यवाभ्यां स्वनतेः सस्य षः स्याद्भोजने ॥ परिनिविभ्यः सेवसितसयसिधुसहसुटुस्तुस्व- ञ्जाम् ।८।३।७० ॥ परिनिविभ्यः परेषांमेषां सस्य षः स्यात् । निषेधति ॥ प्राक्सिता- दड्व्यवायेऽपि ।८।३।६३ ॥ सेवसितेत्यत्र सितशब्दात्प्राग् ये सुनोत्यादयस्तेषामड्व्यवा- येऽपि षत्वं स्यात् ॥ न्यषेधत् । न्यषेधीत् । न्यषेधिष्यत् ॥ स्थादिष्वभ्यासेन चाभ्यासस्य । ८।३।६४ ॥ प्राक् सितात् स्थादिष्वभ्यासेन व्यवायेऽपि षत्वं स्यात् ॥ एषामेव चाभ्यासस्य न तु सुनोत्यादीनाम् ॥ निषिषेध । निषिषिधतुः ॥ सेधतेर्गतौ ।८।३। ११३ ॥ गत्यर्थस्य सेधतेः षत्वं न स्यात् ॥ गङ्गाँ विसेधति ॥ ११ ॥ षिधू शास्त्रे १ चिती इति । संज्ञानं चैतन्यम् ॥ २ इकारस्य "उपदेशेऽजनुनासिकः" इतीत्त्वे, रेफस्य "हलन्त्यम्" इतीत्त्वे च "इदितः" इति नुमापत्तिरित्यभिमानेन वार्तिककृदाह-इर इति । इदिदन्तस्य धातोरेरित्संज्ञेत्यर्थस्य पूर्वमुक्तत्वेन नुमोऽप्राप्तौ विफल एव वार्तिककृतः प्रयास इत्यभिमानपदेन सूचितम् ॥ ३ इति निषेधे प्राप्ते इति । उपलक्षणमिदम्, "अवष्टभ्नाति" इत्यादावप्राप्तस्यैव विधानात् । ४ उत्तरार्थः इति । उत्तरसूत्रे सदेरनुवृत्तिर्माभूत्, 'स्तन्भे