वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 322, कुल 835 में से
संदर्भ में पढ़ेंAn accurate, line-by-line transcription of the provided page into Unicode Devanagari:
तिङन्ते भ्वादिप्रकरणम् । ( २७१ ) माङ्गल्ये च । शास्त्रं शासनम् ॥ स्वरतिसूतिसूयतिधूञूदितो वा ॥ ७ । २ । ४४ ॥ स्वर- त्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड्वा स्यात् ॥ झषस्तथोर्धोऽधः । ८।२।४० ॥ झषः परयोस्तथोर्धः स्यान्न तु दधातेः ॥ जश्त्वम् ॥ सिषेद्ध । सिषेविथ । सेद्धा । सेविता । सेत्स्यति । सेधिष्यति । असैत्सीत् ॥ झलो झलि ।८।२।२६ ॥ झलः परस्य सस्य लोपः स्यात् झलि ॥ असैद्धाम् । असैत्सुः ॥ असैत्सीः । असैद्धम् । असैद्ध ॥ असैत्सम् । असैत्स्व । असैत्स्म । पक्षे असेवीत् । असेविष्टामित्यादि ॥ १२ ॥ खादृ भक्षणे । ऋकार इत् । खादति । चखाद ॥ १३ ॥ खद् स्थैर्ये हिंसायां च । चाद्भक्षणे । स्थैर्