वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 324, कुल 835 में से
संदर्भ में पढ़ेंत्रकि ढौकृ त्रौकृ ष्वष्क वस्क मस्क टिकृ टीकृ तिकृ तीकृ रवि लघि गत्यर्थाः ॥ कङ्कते । डुढौके । तुत्रौके ॥ सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः * ॥ ष्वष्कते । पष्वष्के ॥ अत्र तृतीयो दन्त्यादिरित्येके ॥ लघि भोजननिवृत्तावपि ॥ ३४ ॥ अघि वधि मधि गत्याक्षेपे । आक्षेपो निन्दा गतौ गत्यारम्भे चेत्यन्ये । अङ्घते । आ- नङ्घे । वङ्घते । मङ्घते । मवि कैतवे च । ३७ ॥ राघृ लाघृ द्राघृ सामर्थ्ये । राघते ॥ ३८ ॥ लाघते ॥ ३९ ॥ द्राधृ इत्यपि केचित् । द्राघृ आयामे च । आयामो दैर्घ्यम् । द्राघते ॥ ४१ ॥ श्लाघृ कथने श्लाघते ॥ ४२ ॥ * ॥ अथ परस्मैपदिनः पञ्चा- शत् ॥ फक्क नीचैर्गतौ । नीचैर्गतिर्मन्दगमनमसद्व्यवहारश्च । फक्कति । पफक्क ॥ १ ॥ तक हसने । तकति ॥ २ ॥ तकि कृच्छ्रजीवने । तङ्कति ॥ ३ ॥ बुक्क भषणे । भषणं श्वरवः ॥ बुक्कति ॥ ४ ॥ कख हसने । प्रनिकखति ॥ ५ ॥ ओख् राखृ लाखू द्राखृ धाखृ शोषणालमर्थयोः । ओखति । ओखांचकार ॥ १० ॥ शाखृ श्लाखृ व्याप्तौ । शाखति ॥ १२ ॥ उख उखि वख वखि मख मखि णख णखि रख रखि लख लखि इख इखि ईखि वल्ग रगि लगि अगि वगि मगि तगि त्वगि श्रगि श्लगि इगि रिगि लिगि गत्यर्थाः । द्वितीयान्ताः पञ्चदश । तृतीयान्तास्त्रयोदश । इह खान्तेषु रिख त्रख त्रिखि शिखि इत्यपि चतुरः केचित्पठन्ति ॥ अभ्यासस्यासवर्णे । ६।४।७८ ॥ अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि ॥ उवोख । संनिपातपरिभा- षया इजादेरित्याम् ॥ ऊखतुः । ऊखुः । ईह सवर्णदीर्घस्याभ्यासग्रहणेन ग्रहणाद्ध्रस्वः प्राप्तो न भवति सकृत्प्रवृत्तत्वात् । आङ्गत्वाद्धि पर्जन्यवल्लक्षणप्रवृत्त्या ह्रस्वे कृते ततो दीर्घः । १ ननु “ष्वष्कते” इत्यादौ “धात्वादेः” इति सत्वं कुतो नेति शङ्कायामाह-“सुब्धातु” इति । सुब्धातोरुदाहरणम्--“षण्डीयति” इत्यादि ॥ भाष्ये तु “धात्वादेः” इति सूत्रे उपदेशपदसम्बन्धेन तत्रत्यं धातुग्रहणमेतद्वार्तिकस्थसुब्धातुग्रहणं च प्रत्याख्यातम् । यदि तु ष्ठिवुप्रभृतीनामपि यादित्वादेव सिद्धि- रिति विभाव्यते तदा तेषां ग्रहणमप्यनावश्यकम् । इति बोध्यम् ॥ २ उवोखेति । “द्विर्वचनेऽचि” इति निषेधात् पूर्वं द्वित्वे कृते उकारस्य वार्णादङ्गस्य बलीयस्त्वात् सवर्णदीर्घं बाधित्वा गुणे कृते उवङ् । पूर्व- स्यैव विधौ स्थानिवत्त्वेन सवर्णदीर्घे कर्तव्ये न गुणस्य स्थानिवत्त्वम् । उवडि कर्तव्येऽपि न स्थानिवत्त्वम्, असवर्णग्रहणसामर्थ्यात् । एतत्प्रवृत्तिकालेऽचः परस्मिन्नित्यस्य प्रवृत्तौ असवर्णपरत्वाभावेन तद्वैयर्थ्यं स्पष्टमेव ॥ ३ ननु ‘उवोख’ इत्यत्र गुणे (‘ऊखतुः’ इत्यादौ कृते सवर्णदीर्घे) कृते इजादिगुरुमत्त्वेन “इजादेश्च गुरुमतः-” इत्यामा भाव्यमित्याशङ्कायामाह-सन्निपातेति । आमि सति “आमः” इति लुकि धातो र्णल्(लिट्)परत्वव्याघातः स्यादिति भावः ॥ ४ ननूखतुरित्यादौ “अन्तादिवच्च” इति पूर्वस्यान्तवत्त्वेनाऽ- भ्यासत्वाद् “ह्रस्वः” इति ह्रस्वापत्तिरित्याशङ्क्य समाधत्ते-इहेति । ऊखतुरित्यादावित्यर्थः ॥ ह्रस्वाप्रवृत्तौ हेतुमाह-सकृत्प्रवृत्तत्वादिति । “लक्ष्ये लक्षणं सकृदेव प्रवर्तते” इति परिभाषाप्रवृत्तेरिति भावः ॥ ५ प्राक् तत्प्रवृत्तिमेव दर्शयति-आङ्गत्वादिति । आङ्गत्वात् पूर्वं ह्रस्वे कृते ततो दीर्घ इत्यन्वयः ॥ ननु “अकृतकारि खल्वपि शास्त्रमग्निवत्” इति न्यायेन ह्रस्वस्य ह्रस्वो न स्यादत आह-पर्ज्जन्येति । “पर्जन्यवल्लक्षणप्रवृत्तिः” इति परिभाषया ह्रस्वस्यापि ह्रस्व इति भावः ॥ तदुक्तम्-“इको झल्” इति सूत्रे भाष्ये “कृतकारि खल्वपि शास्त्रं पर्जन्यवत्” इति ॥ नच ‘लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिः’ इत्यत्र न मानमिति वाच्यम्, “समो वा लोपमेके” इति लोपेनैकसकारस्य द्वित्वेन द्विसकारस्य पुनर्द्वित्वेन च त्रिसकारस्य सिद्धौ “समस्सुटि” इति सूत्रस्यैव मानत्वात् ॥ १८