वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 33, कुल 835 में से
संदर्भ में पढ़ेंविचित्रतरं वृत्तं ददृशे । तदीयविचित्रतराश्रुतदृष्टपूर्वनृत्तदर्शनजनितपरमानन्दाम्बुधिनिमज्जना- निरुद्धनिःश्वासतया मत्स्यशरीरेण गौरवमासादितम् । येन त्वमतीव क्लेशितोसि । किं च नर्त्त- नावसाने मन्मुखेन त्वां कात्यायनकृतस्य पाणिनिर्वार्तिकग्रन्थस्य महाभाष्यं कर्तुं स आज्ञापयति स्मेति । ततस्तद्भगवन्नृत्तदर्शनकुतूहलेन पुनःपुनः प्रणिपत्य तद्याचमानं प्राञ्जलिमनन्तं तद्दर्शनाय गन्तुमाज्ञापयामास । ते पाणिन्यादयः के ? तेषां ग्रन्थाः के ? कुत्रत्याश्चेति चेद्यथाप्राप्तं तन्निरूप्यते—तथा हि पणिनामा कश्चिन्महर्षिरवाप पाणिनं नाम कुमारम् । स पाणिनो दाक्षीमुद्वाह्य तस्यां पाणिनिनामानं तनूजमजनयत् । अतिक्रान्तबाल्यः पाणिनिर्विद्याग्रहणयोग्यं वयः प्राप्य नन्दराजराज्यकाले तद्राज्ये निवसन्तमुपवर्षनामानं पण्डितवरिष्ठमुपजगाम विद्यासम्पत्तिला- भाय । तत्रास्य सब्रह्मचारिणौ वररुचिव्याडिनामानावास्ताम् । स कदाचिद्वादे परा- जितो निर्वेदमवाप्य व्याकरणविद्यासाम्राज्यलाभाय सर्वविद्याधिपमीशानं तपसाराद्धुं निश्चिय प्रयागक्षेत्रं गत्वाऽक्षयवटस्याधोभागेतितीव्रं तपश्चक्रे । यत्र स्वस्वेष्टार्थसिद्धये सनकादयोपि सिद्धाः परमेश्वरं तपसोपासां चक्रिरे । चिरात्कदाचित्कठोरतत्तपश्वर्यापरितुष्टस्तत्तदभीष्ट- वरान्प्रदित्सुर्भगवान्नाम्बरङ्गतलमधिष्ठाय नृत्यन्नादयामास चतुर्दशकृत्वो ढक्काम । स नादो यथान्यैः श्रवणपथेन स्वस्वाभीष्टसाम्राज्यप्रापकवरदानवाक्यामृतत्वेन पीतस्तथा पाणि- निनापि स्वेन करिष्यमाणं यद् “अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ,’’ इत्युक्तलक्षणलक्षितसूत्रसमूहरूपो सधातुपाठगणपाठयुक्ता- ष्टाध्यायात्मको ग्रन्थः लिङ्गानुशासनं चेत्येतन्मूलभूतचतुर्दशसूत्रात्मकव्याकरणाम्नायाङ्ग- विद्यासाम्राज्यप्रापकवरदानवाक्यामृततयापीयत । तदुक्तं नन्दिकेश्वरकृतकाशिकायाम्— “नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् । उद्धर्तुकामस्सनकादिसिद्धानेत- द्विमर्शे शिवसूत्रजालम् ,’’ इति । ततोऽनेन स्वलब्धव्याकरणमूलभूतोक्तसाम्राज्यतेजोबलेन पाणिनिः-- “ वृद्धिरादैच् ” इत्यादिकानि “ अ अ ” इत्यन्तानि सूत्राण्यष्टाध्यायात्मना, लिङ्गानुशासनसूत्राणि षडधिकारात्मना, तत्तत्सूत्रेषु गणशब्दपाठांस्तत्रैव गणपाठार्थानर्थ- विचित्रतरचित्रितं कण्डादिना सहैकादशगणं धातुपाठं यजुर्वेदस्य प्रातिशाख्याख्यं सूत्रग्रन्थं तथा शब्दोच्चारणक्रमनिर्णायिकां दशखण्डात्मिकां शिक्षां तथा जाम्बवतीपरिणयाख्यं पाता- लविजयापरनामकं काव्यग्रन्थं च चकार । यत एव “ वरतनु संप्रवदन्ति कुक्कुटाः ” इति व्यक्तावाचमित्यत्र महाभाष्ये कस्यचित् श्लोकस्य भागः प्रत्युदाहरणत्वेन गृहीतः । अन्ये त्वियं पाणिनीयशिक्षा न पाणिनिकृता । यतः “अथ शिक्षां प्रवक्ष्यामि पाणि- नीयं मतं यथा” इत्यादावन्तेपि—“येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः” ॥ ९७ ॥ “अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः” ॥ ९८ ॥ “त्रिनयनमुखनिस्सृतामिमां य इह पठेत्प्र- यतश्च सदा द्विजः । स भवति धनधान्यपशुपुत्रकीर्तिमानतुलं च सुखं समश्नुते दिवीति