भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 336, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 336

वस्तुतोऽङ्गस्यावयवो योऽभ्यास¹ इति वर्णनात् ॥ ऊर्णौ दीर्घोऽर्थापयतौ द्वयं स्यादिति मन्महे ॥ चकास्तौ तूभयमिदं न स्यात्स्याच्च व्यवस्थया ॥ ²णेर्विशेष्यं सन्निहितं लघुनीत्यङ्गमेव वा ॥ इति³ व्याख्याविकल्पस्य कैयटेनैव वर्णनात् ॥ णेर्गलोपेऽपि संन्वत्स्वङ्गिनामपि सिद्धये ॥⁴ अथ क्रम्यन्तास्त्रिंशत्परस्मैपदिनः ॥ अण रण वण भण मण कण क्वण व्रण भ्रण ध्वण शब्दार्थाः । अणति । रणति । वणति । वकारादित्वादेत्त्वाभ्यासलोपौ न । वव्रणतुः । वव्रणिथ ॥ १० ॥ धणिरपि कैश्चित्पठ्यते । धणति ॥ ओणॄ अपनयने । ओणति । ओणाञ्चकार ॥ ११ ॥⁵ शोणॄ वर्णगत्योः । शोणति । शुशोण ॥ १२ ॥ श्रोणॄ संघाते । श्रोणति ॥ १३ ॥ ड्लोणॄ । शोणादयस्त्रयोऽमी तालव्योष्माण्मादयः ॥ १४ ॥ पैणृ गतिप्रेरणश्लेषणेषु । प्रैणृ इति क्वचित्पठ्यते । पिपैण ॥ १५ ॥ भ्रण शब्दे । उपदेशे नो॑¹¹ऽयम् । ' रषाभ्यामिति णत्वम् । भ्रणति । नोपदेशफलं तु यङ्लुकि—दन्ध्र॑न्ति ॥ १६ ॥ वणेत्यपि केचित् । वेणतुः । वेणिथ ॥ १७ ॥ कनी दीप्तिकौन्तिगतिषु । चकान ॥ १८ ॥ ष्टन वन शब्दे । स्तनति । वनति ॥ २० ॥ वन षण संभक्तौ । वनेरर्थभेदात्पुनः पाठः । सनति । ससान । सेनतुः ॥ ये विभाषा । ६ । ४ । ४३ ॥ जनसनखनामान्त्वं वा स्याद्यादौ क्ङिति ॥ सायात् । सन्यात्


१ इदं च “अजजागरत्” इत्यादौ सन्वद्भावापादनसमाधानपरभाष्यविरुद्धमत आह—वस्तुत इति । ऊर्णौ दीर्घ इति । तेन “और्णूनवत्” इति सिद्धम् ॥ अर्थापयताविति । तेन “आर्तीथपत्” इति सिद्धम् ॥ चकास्ताविति । तेन “अचीचकासत्” अचचका- सत्” इति सिद्धम् ॥ न स्यादिति । चङ्परलघोरभावादिति भावः ॥ स्यादिति । अभ्यासस्य लघुपरत्वेन विशेषादिति भावः ॥ २ ननु कथमुभयार्थलाभ इत्यत आह—णेर्विशेष्यमिति । “संनि- हितम्” इति हेतुगर्भविशेषणम् । “लघौ नि” इत्येतद् णेर्विशेष्यं भवति, संनिहितत्वात् । श्रुतानुमितयोः श्रुतसंबन्धो बलीयान् इति परिभाषाप्रवृत्तेरिति भावः । अङ्गमेव वेति । “चङ्परे” इत्यस्याङ्गविशेषणत्वे ऽ- ङ्गस्य प्रत्ययनिमित्तत्वेनैव निरुपविशेष्यलाभ इति भावः ॥ अयं च पक्षो भाष्य इत्युक्तप्रायम् ॥ ३ ननु स्वकपोलकल्पितत्वेनानादरणीयता स्यादिति तत्र प्रमाणमाह—इति व्याख्येति ॥ ४ “चङ्परे” इत्यस्यावृत्तिं विधाय अग्लोपिविशेषणतयापि संयोजितस्य फलमाचष्टे—णेरिति । अगितामिति । ‘कमुप्रभृ- तीनामित्यर्थः ॥ सिद्धये इति “दीर्घस्सन्वद्भावयोः” इति, “कृतः” इति चादावन्ते च शेषः ॥ ५ “ओणॄ” अपनयनं दूरीकरणम् ॥ ६ “शोणॄ” वर्णश्चात्र रक्त एव । “शोणः” कृशानौ स्योनाके लोहिताश्वे नदे पुमान् । त्रिषु कोकनदच्छाद्ये” इति कोशात् । स्योनाकः—“टैण्टू” “अरळू” इति भाषया प्रसिद्धः । कोकनदं रक्तोत्पलम्, तद्वत् छाया यस्येति ॥ ७ गतिर्गमनम् ॥ ८ “श्रोणॄ” “संघातः समूहः । “संघातः पुंसि घाते च संहतौ नरकान्तरे” इति मेदिनी ॥ ९ “पैणृ” प्रेरणं प्रेषणं भृत्यादीनाम् ॥ १० श्लेषणं सम्बन्धः ॥ ११ उपदेशे नान्तोऽयमिति । अयं पाठः पूर्वोपस्थितत्वाद् “रण” धातावेव वक्तुं योग्यः, “षष्टिवर्गस्तवर्गजः” इत्यभियुक्तोक्तेस्तत्रापि समत्वात् ॥ रषाभ्यामिति णत्वमिति । “रषाभ्यां परस्य नस्य णत्वम्” इत्यर्थकेन “अट्कु- प्वाङ्—” इति सूत्रेणेत्यर्थः । “रषाभ्यां नो णः समानपदे” इत्यस्य तु न प्राप्तिः, अटा व्यवधानादिति बोध्यम् ॥ १२ दन्ध्रन्तीति । नुगतोऽनुनासिकान्तस्य” इति अभ्यासस्य नुक् ॥ परनकारस्य तु णत्व- स्यासिद्धत्वात् “नश्चापदान्तस्य” इत्यनुस्वारे परसवर्णे च कृते तस्यासिद्धत्वान्न णत्वमिति प्रक्रिया ॥ १३ “कनी” दीप्तिस्तेजः, कान्तिः शोभा शरीरादीनाम् ॥ १४ ‘वन’ संभक्तिर्भजनम् ॥