वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 337, कुल 835 में से
संदर्भ में पढ़ें॥ २१ ॥ अम गत्यादिषु । कनी दीप्तिकान्तिगतीत्यत्र गतेः परयोः शब्दसंभक्तयोरादिश- ब्देन संग्रहः । अमति । आम ॥ २२ ॥ द्रुम हम्म मीम् गतौ । द्रमति । दद्राम । ह्यन्तेति न वृद्धिः । अद्रमीत् । हम्मति । जहम्म । मीमति । मिमीम । अयं शब्दे च ॥ २३ ॥ चमु छमु जमु क्षमु अदने ॥ ष्ठिवुक्लमुचमां शिति । ७ । ३ । ७५ ॥ एषामचो दीर्घः स्याच्छिति ॥ आँङि चम इति वक्तव्यम् * ॥ आचामति ॥ आङि किम् । चमति । विच- मति । अचमीत् ॥ २९ ॥ जिर्मिं केचित्पठन्ति ॥ जेमति ॥ क्रमु पादविक्षेपे ॥ वा भ्राशब्लाशभ्रमुक्रमुक्लमुत्रसितुटिलषः । ३ । १ । ७० ॥ एभ्यः श्यन्वा स्यात्कर्त्रर्थे सार्वधातुके परे ॥ क्रमः परस्मैपदेषु । ७ । ३।७६ ॥ क्रमेर्दीर्घः स्यात्परस्मैपदपरे शिति ॥ क्राम्यति । क्रामति । चक्राम । क्राम्यतु । क्रामतु । स्नुक्रमोरनात्मनेपदनिमित्ते ७।२। ३६ ॥ अत्रैवेड् । अक्रमीत् ॥ ३० ॥ अथ रेवत्यन्ता अनुदात्तेतः ॥ अय वय पय मय चय तय णय गतौ । अयते ॥ दयायासश्च । ३ । १ । १३७ ॥ दय अय आस् एभ्य आम् स्याल्लिटि । अयांचक्रे । अयेत । अयिषीष्ट ॥ विभाषेटः । ८।३।७९ ॥ इणः परो य इट् ततः परेषां षीध्वंलुट्लिटां धस्य वा मूर्धन्यः स्यात् । अयिषीढ्वम् । अयिषी- ध्वम् । अयिष्ट । अयिढ्वम् । अयिध्वम् ॥ उपसर्गस्यायतौ ।८।२।१९॥ अयतिपर- स्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात् । लायते । पलायते । निस्दुसो रुत्वस्यासिद्धत्वान्न लत्वम् । निरयते । दुरयते । निर्दुरोस्तु-निलयते । दुलयते ॥ प्रत्यय इति त्विणो रूपम् ॥ १ अयं शब्दे चेति । “इमे शब्दे च” इति वक्तव्ये प्रत्येकाभिप्रायेणैकवचनम् ॥ केचित्तु अयमित्यस्य मीम्धातुरित्यर्थ इति व्याचक्षते ॥ २ “चमु” अदनं भक्षणम् ॥ ३ ननु “ष्ठिवुक्लमु” इति दीर्घः, चमतिविचमतीत्यादावपि स्यादत आह-आङि चम इति ॥ ४ जिमिमिति । अत एव जेमनं ब्राह्मणानामित्यादि सिद्धम् ॥ ५ “क्रमु” पादविक्षेपः पादविहरणम् । उकारः क्वित्व “उदितो वा” इतीड्विकल्पार्थः । क्रमित्वा क्रान्त्वा । ६ क्रामत्विति । ननु “क्रमः परस्मैपदेषु” इति सूत्रे “परस्मैपदेषु” इत्युपादानाद्यत्र “क्रामतु” इत्यादौ परस्मैपदपरत्वं तत्रैव स्यादिति-चेल्लोके-“उत्क्राम” इत्यत्र न स्यात् “न लुमता” इति निषेधादिति चेन्न, “क्रमः” इति सूत्रेऽनुवृत्तस्याङ्गस्य परस्मैपदपर- शिन्निरूपितस्यैव ग्रहणात् । लुमता लुप्ते प्रत्यये यदङ्गं तस्य कार्य एव निषेधप्रवृत्तेः ॥ ७ स्नुक्रमोरिति । “स्नुक्रमोः” इति प्रथमार्थे षष्ठी । “अनात्मनेपदनिमित्ते” इति प्रसज्यप्रतिषेधः । तथा च “स्नुक्रमी यत्रात्मनेपदनिमित्ते न भवतस्तत्र प्रत्यासत्त्या ताभ्यां परस्यार्धधातुकस्येट्” इत्यर्थः ॥ ८ उदात्तत्वादिटि सिद्धे नियमोऽयम् । तदाह-अत्रैवेति ॥ ९ श्रुतत्वाद् “अयतो” इत्युपसर्गविशेष- णमत आह-अयतिपरस्येति । तेन “निलयते” प् लायते ” पलायते ” इत्यादौ सर्वत्र लत्वसिद्धिः । रेफविशेषणत्वे तु “निलयते ” इत्यत्र श्रुतिकृतान्यवधान एव स्यादिति भावः ॥ १० प् लायते इति । “अचः परस्मिन्” इति स्थानिवत्त्वादयतिपरत्वम्” इति स्पष्टं भाष्ये ॥ ११ प्रादिषु पठितयो- र्निर्दुर्दुसोश्च सान्तत्वे फलभेदमाह-निस्दुसोरित्यादिना ॥ १२ ननु प्रतिपूर्वादयधातोः । पचाद्यचि घञर्थे के वा “उपसर्गस्य” इति लत्वे च “प्रत्यय” इति रूपे “प्रत्ययः परश्च” इत्यादिनिर्देशानुपपत्तिरत आह-प्रत्यय इति त्विति । “इण् गतौ” इत्यस्माद् “एरच्” इत्यचि गुणे यणि च रूपमिति भावः । प्रत्यय इति तु न, अनभिधानादिति कैयटः ॥