वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 339, कुल 835 में से
संदर्भ में पढ़ेंषीति न्यासकारादयः ॥ तद्भाष्यविरुद्धम् । गेवते । जिगेवे । जिग्लेवे । पिपेवे । मेवते । म्लेवते ॥ ३३ ॥ शेवृ खेत्रृ केवृ इत्यप्येके ॥ ३६ ॥ रेवृ प्लवगतौ । प्लवगतिः प्लुतगतिः । रेवते ॥ ३७ ॥ अथाव्यन्ताः परस्मैपदिनः । मव्य बन्धने । ममव्ये॑ ॥ १ ॥ सूर्क्ष्य ईर्क्ष्य ईर्ष्या ईर्ष्यार्थाः ॥ ४ ॥ ह्य गतौ । अहर्यात् । यान्तत्वान्न वृद्धिः ॥ ५ ॥ शुच्य अभिषवे । अवयवानां शिथिलीकरणं सुरायाः सन्धानं वाऽभिषवः स्नानं च । शु- शुच्य ॥ ६ ॥ बुच्य इत्येके ॥ ७ ॥ हर्य गतिकान्त्योः । जहर्य ॥ ८ ॥ अल भूषणप- र्याप्तिवारणेषु । अलति । आल ॥ अतो ल्रान्तस्य । ७ । २ । २ ॥ लेतिँ लुप्तषष्ठीकम् । अतः समीपौ यौ ल्रौ तदन्तस्याङ्गस्यातो वृद्धिः स्यात्परस्मैपदपरे सिचि ॥ "नेटि"ति निषेधस्य 'अतो हलादेरिति विकल्पस्य चापवादः ॥ मा भवानालीत् ॥ अयं स्वरितेदित्येके । तन्मते, अलते इत्याद्यपि ॥ ९ ॥ ज्रिफला विशरणे । तृर्पलेत्येत्त्वम् । फेलतुः । फेलुः । अफालीत् ॥ ॥ १० ॥ मील श्मील स्मील क्ष्मील निमेषणे । निमेषणं संकोचः । द्वितीयस्तालव्यादिः । तृतीयो दन्त्यादिः ॥ १४ ॥ पील प्रतिष्टम्भे । प्रतिष्टम्भो रोधनम् ॥ १५ ॥ नील वर्णे । निनील ॥ १६ ॥ शील समाधौ । शीलति ॥ १७ ॥ कील बन्धने ॥ १८ ॥ कूल आवरणे ॥ १९ ॥ शूल रुजायां संगोषे च ॥ २० ॥ तूल निष्कर्षे । निष्कर्षो निष्को- १ मव्य बन्धने । रज्ज्वादिकरणकगत्यादिरोधहेतुसंयोगानुकूलव्यापारो बन्धनम् ॥ २ ममव्येति । अत्र "यस्य हलः" इति यशब्दस्य लोपो न, तत्र "यस्य" इति संघातस्य ग्रहणात् । आशिषि-मव्या- त् । अत्र "हलो यमां यमि लोपः" इति वा यलोपः ॥ ३ "सूर्क्ष्य" इत्यादि । अनिष्टानुपैक्षणमीर्ष्या परोत्कर्षगोचरो द्वेष इति वा । लिटि सुषूर्य्य षोपदेशत्वात्तुस्तस्य षः ॥ ४ शिथिलीकरणमिति । “सोममभिषुणोति" इत्यादौ तथा दर्शनात् । सुराया इति। तत्प्रकरणे-“सन्धानं स्यादभिषवः” इत्यमरोक्तेः । स्नानमिति । " वाराङ्गीनमभिषुण्वते " इत्यादौ तथा दर्शनात् ॥ ५ यद्यवयववचनेनान्तशब्देन बहुव्रीहिः, अङ्गं चान्यपदार्थस्तर्ह्यन्तग्रहणमनर्थकं विशेषणेनैव तदन्तविधेः सिद्धत्वात्, अन्तशब्दस्य पूर्वनिपातापत्तिश्च अथ “ओदकान्तादावनान्तात् प्रियं प्रोथ (पान्थ) मनुव्रजेत्” इत्यादौ दृष्टेन समीपवाचिनाऽन्तशब्देन षष्ठीसमासः “रेफलकारयोः समीपभूतस्यातो वृद्धिः” इति, तर्हि लपरिगणिप्रभृतिष्वपि स्यात् अथ “लूं च तदन्तश्च” इति कर्मधारयस्तर्हि अन्तशब्दस्य विशेषणत्वात् पूर्वनिपातः स्यादत आह-लुप्तषष्ठीकमिति ॥ ६ ननु यदि येन नाप्राप्तिन्यायेन “अतो ल्रान्तस्य” इति सूत्रम् “अतो हलादेः” इति विकल्पस्यैव बाधकं स्यात् तर्हि “मा भवानालीत्” इत्यत्राहलादित्वेन विकल्पाप्राप्तौ “नेटि” इति निषेधो दुर्वारः, अथ पुरस्तादपवाद- न्यायेन “अतो ल्र” इति सूत्रं “नेटि” इत्यस्य बाधकं तर्हि “अफालीत्” इत्यादौ “अतो हलादेः” इति विकल्पो दुर्वार इत्याशङ्क्य बाध्यसामान्यचिन्तापक्षाश्रयेण समाधत्ते-नेटीति । स्वविषये प्राप्तं सर्वे बाध्यते बाध्यसामान्यचिन्तापक्षाश्रयणादिति भावः ॥ ७ तृफलेत्येत्त्वमिति । यद्यपि “अभ्यासे चर्च” इत्यस्या- सिद्धत्वाद् “अतः” इत्येव फलभज्योरेत्त्वाभ्यासलोपौ सिद्धौ तथापि तयोर्ग्रहणंमेत्त्वविधिं प्रति सिद्धत्वज्ञाप- नार्थ तेन बभणतुरित्यादि सिद्धम् ॥ नच “दिव औत् ” इति सूत्र इवाप्रत्ययविधावपि निरनुबन्धकपरिभाषा- प्रवृत्त्या “ फल निष्पत्तौ ” इति धातोरेव ग्रहणं युक्तमिति वाच्यम्, प्रकृतसूत्रस्थचकारेण “ज्रिफला ” इत्य- स्यापि ग्रहणात् ॥ ८ संकोच इति । नेत्रसंकोच इत्यर्थः, तत्रैव प्रचुरप्रयोगात् ॥ ९ “नील” वर्णश्चात्र नील एव । धातुस्वरूपतस्तथैव प्रतीतेः ॥ “ शील ” चित्तवृत्तिनिरोधः समाधिः । समाधीयते चित्तम- नेनेति व्युत्पत्तेः “यत्समत्वं द्वयोरत्न जीवात्मपरमात्मनोः । स नष्टसर्वसंकल्पः समाधिरभिधीयते” ॥