वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 343, कुल 835 में से
संदर्भ में पढ़ेंजेहतिर्गत्यर्थोऽपि । ववाहे ॥ ४४ ॥ द्राहु निद्राक्षये । निक्षेपे इत्येके ॥ ४५ ॥ कांशृ दीप्तौ । चकाशे ॥ ४६ ॥ ऊह वितर्के । ऊहांचक्रे ॥ ४७ ॥ गाहू विलोडने । गाहते । जगाहे । जगहिषे । जगाक्षे । जगाहिध्वे । जगाहिढ्वे । जगाढ्वे । गाहिता ॥ ढो ढे लोपः। ८।३।१३ ॥ ढस्य लोपः स्याड्ढे परे ॥ गाढा । गाहिष्यते । घाक्ष्यते । गाहिषीष्ट । घाक्षीष्ट । अगाहिष्ट । अगाढ । अघाक्षाताम् । अघाक्षत । अगाढाः । अघाढ्ध्वम् । अघाक्षि ॥ ४८ ॥ गूहू ग्रहणे । गर्हते । जगृहे ॥ ऋदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वविप्रतिषेधेन * ॥ जगृहिषे । जगृक्षे । जगृढ्वे । गर्हिता । गर्ढा । गर्हिष्यते । घर्क्ष्यते । गर्हिषीष्ट । घृक्षीष्ट । लुङि । अगर्हिष्ट । इडभावे ॥ शल इगुपधादनिट