भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 346, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 346

तादेर्लृदितश्च परस्य च्लेरङ् स्यात्परस्मैपदेषु ॥ अवसत् ॥ ६४ ॥ जर्ज चर्च झर्झ परि- भाषणहिंसातर्जनेषु ॥ ६७ ॥ पिसृ पेसृ गतौ । पिपिसतुः । पिपेसतुः ॥ ६९ ॥ हसृ हसने । एदित्त्वान्न वृद्धिः । अहसीत् ॥ ७० ॥ णिश समाधौ । तालव्योष्मान्तः । प्रणे- शति ॥ ७१ ॥ मिश मश शब्दे रोषकृते च । तालव्योष्मान्तौ ॥ ७३ ॥ शव गतौ । दन्तोष्ठ्यान्तस्तालव्योष्मादिः । शवति । अशवीत् । अशावीत् ॥ ७४ ॥ शश प्लुतगतौ । तालव्योष्मान्तः । शशाश । शेशतुः । शेशुः । शेशिथ ॥ ७५ ॥ शसु हिंसायाम् । दन्त्योष्मान्तः । न शसददेत्येत्त्वं न । शशसतुः । शशसुः । शशसिथ ॥ ७६ ॥ शंसु स्तुतौ । अयं दुर्गतावपीति दुर्गः । ‘नृशंसो घातुकः क्रूरः’ इत्यमरः । शशंस । आ

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध) · पृष्ठ 346, कुल 835 में से · BharatKosha