वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 347, कुल 835 में से
संदर्भ में पढ़ेंदीप्तौ ॥ ११ ॥ क्षुभ संचलने ॥ १२ ॥ णभ तुम हिंसायाम् । आद्योऽभावेऽपि । नम- न्तामन्यके समे । मा भूवन्नन्यके सर्वे । इति निरुक्तम् । अनभत् । अनभिष्ट । अतुमत् । अतोमिष्ट । इमौ दिवादि क्रयादी च ॥ १४ ॥ स्रंसु ध्वंसु भ्रंसु अवस्रंसने । ध्वंसु गतौ च । अङि नलोपः । अस्रसत् । अस्रंसिष्ट । नाम्रसतकारिणां ध्रैवमिति रघुकाव्ये । भ्रंशु इत्यपि केचित्पेठुः । अत्र तृतीय एव तालव्यान्त इत्यन्ये ॥ १७ ॥ भृशु भ्रंशु अधःपतन इति दिवाद्यौ ॥ १९ ॥ स्रम्भु विश्वासे । अस्रभत् । अस्रम्भिष्ट । दन्त्यादिरयम् । तालव्यादिस्तु प्रमादे गतः ॥ २० ॥ वृतु वर्तने । वर्तते । ववृते ॥ वृद्भ्यः स्यसनोः ।१।३।९२ ॥ वृतादिभ्यः परस्मैपदं वा स्यात्स्ये सनि च ॥ न वृद्भ्यश्चतुर्भ्यः । ७ । २ । ५९ ॥ एभ्यः सकारादेरार्धधातुकस्येण् न स्यात्तङानयोरभावे ॥ वर्त्स्यति । वर्तिष्यते । अवृत्त । अवर्तिष्ट । अव- र्त्स्यत् । अवर्तिष्यत ॥ २१ ॥ वृधु वृद्धौ । शृधु शब्दकुत्सायाम् । इमौ वृतिवत् ॥ २३ ॥ स्यन्दू प्रस्रवणे । स्यन्दते । सस्यन्दे । सस्यन्दिषे । सस्यन्त्से । सस्यन्दिध्वे । सस्यन्ध्वे । स्य- न्दिता । स्यन्ता । 'वृद्भ्यः स्यसनोरिति परस्मैपदे कृते ऊदिलक्षणमन्तरङ्गमपि विकल्पं बाधित्वा चतुर्ग्रहणसामर्थ्यान्न वृद्भ्यः इति निषेधः । स्यन्त्स्यति । स्यन्दिष्यते । स्यन्त्स्यते । स्यन्दिषीष्ट । स्यन्त्सीष्ट । द्युद्भ्यो लुङीति परस्मैपदपक्षे अङ् । नलोपः । अस्यदत् । अस्यन्दिष्ट । अस्यन्त । अस्यन्साताम् । अस्यन्सत । अस्यन्त्स्यत् । अस्यन्दिष्यत । अस्यन्त्स्यत ॥ अनुविपर्यभि- निभ्यः स्यन्दतेरप्राणिषु ।८।३।७२ ॥ एभ्यः परस्याप्राणिकर्तृकस्य स्यन्दतेः सस्य षो वा स्यात् । अनुष्यन्दते अनुस्यन्दते वा जलम् । अप्राणिषु किम् । अनुस्यन्दते हस्ती । अप्राणिष्विति पर्युदासान्मत्स्योदके अनुष्यन्देते इत्यत्रापि पक्षे षत्वं भवत्येव । प्रा- णिषु नेत्युक्तौ तु न स्यात् ॥ २४ ॥ कृपू सामर्थ्ये ॥ कृपो रो लः । ८ । २ । १८ ॥
१ "क्षुभ" सञ्चलनं प्रकृतिविपर्यासो मन्थनं च ॥ २ "स्रंसु" अवस्रंसनमधःपतनम् ॥ ३ "स्रम्भु" निर्दोषत्वेनाभिमानो विश्वासः ॥ ४ न वृद्भ्य इति । स्यन्दतेरुदित्त्वाद् विकल्पेऽन्येभ्यो नित्यमिटि प्राप्ते निषेधोऽयम् ॥ ५ " गमेरिट् " इत्यतोऽनुवर्तमानं परस्मैपदपदं तङानयोरभावं लक्षयति तदाह-तङानयोरभावे इति । तेन " जिगमिषिता " इत्यादौ तृचि सन इट्सिद्धिः ॥ ६ "स्यन्दू" द्रवहेतुकक्रियाविशेषः प्रस्रवणम् ॥ ७ अन्तरङ्गमपीति । सकारादिविशेषापेक्षत्वादामनेपदनिमित्त- त्वाभावनििमत्तत्वाच्च निषेधस्य बहिरङ्गत्वमिति भावः ॥ चतुर्ग्रहणसामर्थ्यादिति । चतुर्ग्रहणेन हि सर्वेषु प्रत्येकं निषेधव्यापारो व्यज्यते । अन्यथा " न वृद्भ्यः" इत्येतावता सूत्रेण सिद्धौ तद्वैयर्थ्यं स्पष्टमेव । नच चतुर्ग्रहणाभावे कृपेरपि संग्रहत्वापत्तिरिति तन्निवृत्तिरेव चतुर्ग्रहणस्य फलमिति वाच्यम्, " तासि च " इति चकारेण सायार्धधातुके तस्यापि निषेधसत्त्वात् । ननु यदि इड्विधायकशास्त्रदृष्ट्या प्रतिषेधस्य बहिरङ्गत्वं तदा प्रतिषेधवैयर्थ्यमिति चेन्न, येन नाप्राप्तिन्यायेन आर्धधातुकलक्षणेड्बाधेन " न वृद्भ्यः " इत्यस्य चारि- तार्थ्यात् । नच " तासि च " इति सूत्रस्यापि 'स्वरति' इति सूत्रदृष्ट्या पूर्वोक्तरीत्या बहिरङ्गत्वं स्यादिति तत्राप्यूदित्त्वलक्षणेड्विकल्पापत्तिरिति वाच्यम्, " तासि च " इति सूत्रारम्भसामर्थ्यादेव तत्र विकल्पाप्रवृत्ते- रिति भावः ॥ वस्तुतस्तु " अन्तरङ्गादुपजीव्यादपि निषेधा अतिशयेन बलवन्तः " इत्यर्थकया "निषेधाश्च बलीयांसः" इति परिभाषया " स्वरति " इति विकल्पाप्रवृत्तौ चतुर्ग्रहणं स्पष्टार्थमेव । " वृतादिभ्यो यद्यत् प्राप्नोति तत्तन्न " इत्यर्थेन सर्वेषां निषेधाच्चेति ध्येयम् ॥