भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 350, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 350

तिङन्ते भ्वादिप्रकरणम् । ( २९९ )

भाषणे मित्त्वार्थोऽनुवादः ॥ ५ ॥ नट नृत्तौ । इत्थमेव पूर्वमपि पठितम् । तत्रायं विवेकः । पूर्वं पठितस्य नाट्यमर्थः । यत्कारिषु नटव्यपदेशः । वाक्यार्थाभिनयो नाट्यम् । घटादौ तु नृत्यं नृत्तं चार्थः । यत्कारिषु नर्तकव्यपदेशः । पदार्थाभिनयो नृत्यम् । गात्रविक्षेप- मात्रं नृत्तम् । केचित्तु घटादौ नट नताविति पठन्ति । गतावित्यन्ये ॥ णोपदेशपर्युदासवाक्ये भाष्यकृता नार्टीति दीर्घपाठाद् घटादिर्णोपदेश एव ॥ ६ ॥ ष्टक प्रतीघाते । स्तकति ॥ ७ ॥ चक तृप्तौ । तृप्तिप्रतिघातयोः पूर्वं पठितस्य तृप्तिमात्रे मित्त्वार्थोऽनुवादः । आत्मनेपदिषु पठि- तस्य परस्मैपदिष्वनुवादात्परस्मैपदम् ॥ ८ ॥ कखे हसने । एदित्त्वान्न वृद्धिः । अक- खीत् ॥ ९ ॥ रगे शङ्कायाम् ॥ १० ॥ लगे सङ्गे ॥ ११ ॥ हगे ह्रगे पगे पृगे संवरणे ॥ १५ ॥ कगे नोच्यते अस्याय॒मर्थ इति विशिष्य नोच्यते, क्रियासामान्यार्थ- त्वात् । अनेकार्थत्वादित्यन्ये ॥ १६ ॥ अक अग कुटिलायां गतौ ॥ १८ ॥ कण रण गतौ । चकाण । रराण ॥ २० ॥ चण शण श्रण दाने च । शण गतावित्यन्ये ॥ २३ ॥ श्रथ श्लथ क्रथ कृथ हिंसार्थाः । ‘जासिनिप्रहणेति सूत्रे क्राथेति मित्त्वेऽपि वृद्धिर्निपा- त्यते । क्राथयति ॥ मित्त्वं तु निपातनात्परत्वाच्चिण्णमुलोरिति दीर्घे चरितार्थम् । अक्रथि । अक्राथि । क्रथंक्रथम् क्राथंक्राथम् ॥ २७ ॥ वन च । हिंसायामिति शेषः ॥ २८ ॥ वनु च नोच्यते । वनु इत्यपूर्व एवार्थ धातुर्नेतु तानादिकस्यानुवादः । उदित्करणसामर्थ्यात् । तेन १ “णट नृत्तौ” इति पाठः । “नट” इति त्वपपाठ इति बोध्यम् ॥ २ नाट्यादिपदानां भेदमाह- तत्रायं विवेक इत्यादिना । वाक्यार्थाभिनय इति । हस्तादिचेष्टया वाक्यार्थसूचनमित्यर्थः । यथा “एतद्धन्मेतत्तथिया” इत्यादिना काव्यप्रकाशे स्पष्टमभिहितम् । पदार्थाभिनयस्तु लोके प्रसिद्ध एव ॥ ३ ननु विशेषानालिङ्गितसामान्यस्याभावेन क्रियासामान्यार्थत्वमयुक्तमत आह-अनेकार्थत्वादिति ॥ ४ निपात्यते इति । तत्र णिप्रकृतिधातोरेव ग्रहणं न घञन्तस्य, पूर्वोत्तरसाहचर्यादिति भावः ॥ निपातनं नामान्यादृशे प्रयोगे प्राप्तेऽन्यादृशप्रयोगकरणम् ॥ ननु धातुषु दीर्घ एव पठनीयो निपातनापेक्षया लाघवादिति चेन्न, दीर्घणिचोरभावे ह्रस्वोच्चारणस्य चरितार्थत्वात् ॥ ५ ननु घटादिषु क्रथधातोः पाठोव्यर्थस्त आह- मित्त्वं त्विति । निपातनं च चिण्णमुलतिरिक्तविषये चरितार्थम् । “चिण्णमुलोः” इति सूत्रविहितदीर्घस्य वैकल्पिकतया तदभावेऽपि न वृद्धिः, फले विशेषाभावेन दीर्घेण बाधस्य वैयर्थ्यापत्तेः । “चिण्णमुलोः” इति शास्त्रस्य वृद्धयभावेऽपि तात्पर्यादिति भावः ॥ ६ उदित्करणसामर्थ्यादिति । तानादिकानुवादे तनादेरुदित्त्वेन पुनरत्रोदित्त्वकरणं व्यर्थमित्यर्थः । ननु भौवादिकव्यावृत्त्यर्थमेवोदित्त्वमस्तु एवं चापूर्वत्वासिद्धि- रिति चेन्न, “अस्मिन्नेवार्थे मित्त्वम्” इति नियमसत्त्वे उदित्त्वाभावे भ्वादिष्वर्थान्तरे पठितस्य “अर्थविशेषे मित्त्वार्थोऽनुवादः” इति वक्तुं शक्यम्, तत्तु न, “विशिष्यार्थो नोच्यते” इत्युक्त्या नियमस्य वक्तु- मशक्यत्वादिति पूर्वत्र वनपाठसामर्थ्यादस्य भौवादिकानुवादत्वासम्भवे तानादिकानुवादत्वं वाच्यम्, एवं चोदित्त्वं व्यर्थमेवेत्याशयात् । क्रियासामान्यार्थत्वादेव पूर्वपठितवनोऽपि नानुवादः । “विशिष्यार्थो नो- च्यते” इत्युक्त्याऽर्थनियमासंभवेन पूर्वत्र वनपाठस्य वैयर्थ्यापत्त्या तदनुवादासम्भवात् । उदित्त्वफलं तु णिज- भावे बोध्यम् ॥ शेखरकृतस्तु “परे तु पूर्वपाठः संभक्तौ शब्दे च “वनोति” इति रूपव्यावृत्त्यर्थः । अन्य- थाऽनेनैव “वनति” इत्यादिसिद्ध्या तत्रापि तद्वैयर्थ्यं तदवस्थमेव । तनादौ “वनु याचने” इति पाठः । अत्र तु “वन शब्दे” “वन षण संभक्तौ” इति । उदित्त्वमस्य तु ‘तानादिकस्यैवात्रानुवादः’ इत्यर्थ- बोधनाय । तेन पूर्वपठितस्य “प्रवानयति” इत्येव । तानादिकस्योदित्त्वेन पूर्वपठितस्याऽनुदित्त्वेन निष्ठायां रूपद्वयं तवापीष्टमेवेत्याहुः” इति वदन्ति ॥