वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 356, कुल 835 में से
संदर्भ में पढ़ेंअंगृह्वहि । अधुक्षावहि । अधुक्षामहि ॥ ३८ ॥ अथाजन्ता उभयपदिनः ॥ श्रिञ् सेवा- याम् । श्रयति । श्रयते । शिश्रियतुः । श्रयिता । णिश्रीति चङ् । अशिश्रियत् ॥ १ ॥ भृञ् भरणे । भरति । बभार । बभ्रतुः । बभर्थ । बभूव । बभृषे । भर्त्ता ॥ ऋद्धनोः स्ये ॥ ७।२।७० ॥ ऋतो हन्तेश्च स्यस्य इट् स्यात् ॥ भरिष्यति ॥ रिङ् शयग्लिङ्क्षु ॥ १ अगृह्वहीति । "लोपो व्योर्लिवलि" इत्यतः "लोपः" इत्यनुवर्त्तमाने पुनर्लुग्ग्रहणं सर्वादेशार्थम् ? इति सर्वस्य क्सस्य "दन्तोष्ठ्यो वः स्मृतो बुधैः" इति शिक्षाप्रामाण्येन वकारस्य दन्त्यत्वमाश्रित्य लुगिति प्राञ्चः कैयटानुसारिणः ॥ वस्तुतस्तु "न पदान्त" सूत्रे भाष्ये "पूर्वत्रासिद्धे न स्थानिवत्" इत्यस्य प्रयोजननिरूपणावसरे "क्सलोपः सलोपे"