वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 358, कुल 835 में से
संदर्भ में पढ़ेंस्यादाधंधातुके किति लिङि ॥ धेयात् । धेयास्ताम् । धेयासुः ॥ विभाषा धेट्श्व्योः । ३।१।४९ ॥ आभ्यां च्लेश्चङ्वा स्यात्कर्तृवाचिनि लङि परे ॥ चङीति द्वित्वम् । अदधत् । अदधताम् ॥ विभाषा घ्राधेट्शाच्छासः । २ । ४ । ७८ ॥ एभ्यः सिचो लुग्वा स्यात्पर- स्मैपदे परे ॥ अधात् । अधाताम् । अधुः ॥ यमरमनमातां सक् च ।७।२।७३ ॥ एषां सक् स्यादेभ्यः सिच इट् स्यात्परस्मैपदेषु ॥ अधासीत् । अधासिष्टाम् । अधासिषुः ॥ १ ॥ ग्लै म्लै हर्षक्षये । हर्षक्षयो धातुक्षयः । ग्लायति । जग्लौ । जग्लिथ । जग्लथ ॥ वान्यस्य संयोगादेः ।६।४।६८ ॥ घुमास्थादेरन्यस्य संयोगादेर्धातोरत एत्वं वा स्यादाधंधातुके किति लिङि ॥ ग्लायात् । ग्लेयात् । अगलासीत् । म्लायति ॥ ३ ॥ द्यै न्वकरणे । न्वकरणं निर- स्कारः ॥ ४ ॥ द्रै स्वप्ने ॥ ५ ॥ ध्रै तृप्तौ ॥ ६ ॥ ध्यै चिन्तायाम् ॥ ७ ॥ रै शब्दे ॥ ८ ॥ स्त्यै ष्ट्यै शब्दसंघातयोः । स्त्यायति । षोपदेशस्यापि सत्वे कृते रूपं तुल्यम् । षोप- देशफलं तु निष्प्रयासन्ति । अतिष्ठथपदित्यत्र षत्वम् ॥ १० ॥ खै खदने ॥ ११ ॥ क्षै जै पै क्षये । क्षायति । जक्षौ । ससौ । साता । घुमास्थेत्यत्र विभाषा घ्राधेडित्यत्र च स्यते- रेव ग्रहणं न त्वस्य । तेन एत्वसिज्ल्लुकौ न । सायात् । असासीत् ॥ १४ ॥ कै गै शब्दे । गेयात् । अगासीत् ॥ १६ ॥ शै श्रै पाके ॥ १८ ॥ पै ओबै शोषणे । पायात् । अपा- सीत् । 'घुमास्थेतीत्त्वं तदपवाद 'एलिडीत्येत्वं' गातिस्येति सिज्ल्लुक् च न । पारूपस्य लाक्षणि- कत्वात् ॥ २० ॥ ष्ट्यै वेष्टने । स्तायति ॥ २१ ॥ ष्णा वेष्टने । शीभायां चेत्येके । शौच- इत्यन्ये । नायति ॥ २२ ॥ दैप् शोधने । दायति । अव्यवादेत्वसिज्ल्लुकौ न । दायात् । अदासीत् ॥ २३ ॥ पा पाने । 'पाघ्राध्मेति पिबादेशोऽदन्तः । तस्यादन्तत्वान्नोषधागुणः । पिबति । पेयात् । अपात् ॥ २४॥ घ्रा गन्धोपादाने । जिघ्रति । घ्रायात् । त्रेयात् । अधासीत् । अधात् ॥ २५ ॥ ध्मा शब्दानिसंयोगयोः । धमति ॥ २६ ॥ ष्ठा गतिनिवृत्तौ । तिष्ठति । 'स्था- दिष्वभ्यासेनेति षत्वम् । अतितष्ठौ । 'उपसर्गादिति षत्वम् । अधिष्ठाता । स्थेयात् ॥ २७ ॥ म्ना अभ्यासे । मनति ॥ २८ ॥ दाण् दाने । प्रणियच्छति । देयात् । अदात् ॥ २९ ॥ ह्वृ कौटिल्ये । हरति । ऋतँश्च संयोगादेर्गुणः ।७।४।१० ॥ ऋदन्तस्य संयोगादेरङ्गस्य १ "पा पाने" द्रवद्रव्यस्य गलविलाधःसंयोगानुकूलो व्यापारः पानम् । २ अङ्गवृत्तपरिभाषा न लक्ष्यसंस्कारिकेति मनसि निधायाऽऽह-पिबादेशोऽदन्त इति । अदन्त इत्युपलक्षणमाद्युदात्तत्वस्यापि ॥ ३ "ष्ठा" अकृतव्यूहपरिभाषया "निमित्तापाये नैमित्तिकस्याप्यपायः" इति परिभाषया वा "धात्वादेः" इति सत्वे कृते प्रकृतिस्तवर्गीः स्यादिति प्राञ्चः ॥ नव्यमते तु अकृतव्यूहपरिभाषायाः, तन्मूलक "निमित्तापाये" इत्यस्य चाभावेन "स्थाता स्थानम्" इत्यादौ "धात्वादेः" इति सत्वे कृतेऽपि श्रूयमाणस्य ष्टुत्वस्य निवृत्त्यु- पायाभाव इति चेत् ॥ अत्रोच्यते-'षोष्ठ्वर्गस्तवर्गजः' इत्युक्त्या संज्ञाशास्त्रदृष्ट्या लक्षणवशसंपन्नस्य ष्टुत्वस्यासि- द्धत्वेन तद्रहितस्यैव धातुसंज्ञाप्रवृत्त्या ष्टुत्वसहितस्य प्रयोगविषयताया दौर्लभ्यादिति ॥ ४ "ऋतश्च" इति । तपरत्वं स्पष्टार्थम् । दीर्घास्तेष्वस्याप्रवृत्तावपि 'ऋच्छत्यृताम्' इति गुणप्रवृत्तेरव्याहतत्वात् । अत्राकार- विधानेन सिद्धे गुणग्रहणं 'तितीर्षन्' तितिराण, इत्यत्र "ऋच्छत्यृताम्" इत्यस्येग्लक्षणत्वेन "क्ङिति च" इति निषेधाय । कसोः कित्त्वसामर्थ्यान्निषेधविषयस्यापि तस्य गुणस्य निषेधाङ्गीकारात् ।