वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 360, कुल 835 में से
संदर्भ में पढ़ेंAn exact, line-by-line transcription of the provided page of the Siddhānta Kaumudī (Tiṅante Bhvādiprakaraṇam) into Devanagari Markdown:
स्तुसुधूभ्यः परस्मैपदेषु । ७।२।७२ ॥ एभ्यः सिच इड् स्यात्परस्मैपदेषु ॥ असावीत् । पूर्वोत्तगभ्यां त्रिड्भ्यां साहचर्यात्सुनोतेरेव ग्रहणमिति पक्षे असौषीत् ॥ ४० ॥ श्रु श्रवणे ॥ श्रुवः शृ च॑ ।३।१।७४ ॥ श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्च शब्विषये । शपो- पवादः ॥ ओर्द्वित्त्वाद्भातोर्गुणो न । शृणोति । शृणुतः ॥ हुश्नुवोः सार्वधातुके ।६।४।८७ ॥ जुहोतेः श्नुप्रत्ययान्तस्यानेकाचोऽङ्गस्य चासंयोगपूर्ववर्णस्य यण् स्यादजादौ सार्वधातुके । उवङोऽपवादः ॥ शृण्वन्ति । शृणोमि । शृण्वः । शृणुवः । शृण्मः शृणुमः ।