वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 377, कुल 835 में से
संदर्भ में पढ़ेंनेनिग्ध ॥ नाभ्यस्तस्याचि पिति सार्वधातुके । ७।३।८७ ॥ लघूपधगुणो न स्यात् । नेनिजानि । अनेनेक् । अनेनिक्ताम् । अनेनिजुः । नेनिज्यात् । निज्यात् । अनिञ्जत् । अनैक्षीत् । अनिक्त ॥ १ ॥ विजिर् पृथग्भावे । वेवेक्ति । वेविक्ते । विवेजिथ । अत्र 'विज इडिति ङित्त्वं न । ओविजी इत्यस्यैव तत्र ग्रहणात् ॥ णिँजिविजी रुधादावपि ॥ २ ॥ विष्लृ व्याप्तौ । वेवेष्टि । वेविष्टे । लृदित्त्वादङ् । अविपत् । तङि क्सः । अजादौ 'क्सस्याचीति अल्लोपः । अविक्षत । अविक्षाताम् । अविक्षन्त ॥ ३ ॥ अथ आगणान्ताः परस्मैपदिनश्छान्दसाश्च ॥ घृ क्षरणदीप्त्योः । 'जिघर्म्यग्निं हविषा घृतेन' ॥ जघर्त्ति । 'बहुलं छन्दसीति इत्त्वम् ॥ १ ॥ हृ प्रसद्यकरणे । 'अयं सुवो अभिजिहर्त्ति होमान्