भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 385, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 385

षिद्–अधार्षीत् । अधारिष्ट । अथोष्ट ॥ १० ॥ अथ परस्मैपदिनः ॥ ष्टुञ् उपतापे दुनोति ॥ १ ॥ हि गतौ वृद्धौ च ॥ हिनुमीना ।८।४।१५ ॥ उपसर्गस्थान्निमि- त्तात्परस्य एतयोर्नस्य णः स्यात्॥ प्रहिणोति॥ हेरचङि।७।४।५६ ॥ अभ्यासात्परस्य हि- नोतेर्हस्य कुत्वं स्यान्नतु चङि ॥ जिघाय ॥ २ ॥ पृ प्रीतौ। पृणोति। पर्ता ॥ ३ ॥ स्पृ प्रीति- पालयोः। प्रीतिचलनयोरित्यन्ये। चलनं जीवनमिति स्वामी। स्पृणोति। पस्पार ॥ ४॥ स्मृ इत्येके। स्मृणोति। पृणोत्यादयस्त्रयश्छान्दसा इत्याहुः ॥ ५ ॥ आपॢ व्याप्तौ । आप्नोति। आप्नुतः। आप्नुवन्ति। आप्नुवः। आप। आप्ता। आप्नुहि। लृदित्त्वाद्दङ्। आपत् ॥ ६ ॥ शक्लृ शक्तौ ॥ अशकत् ॥ ७ ॥ राध साध संसिद्धौ । राध्नोति ॥ राधो हिंसायाम् ।६।४।१२३ ॥ एत्त्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च ॥ अपरेधतुः। रेधुः। रेधिथ। रद्धा। साघ्नोति। साद्धा। असात्सीत्। असाद्धाम् ॥ ९ ॥ अथ द्वावनुदा- त्तेतौ ॥ अश् व्याप्तौ संघाते च । अश्नुते ॥ अश्नोतेश्च ।७।४।७२ ॥ दीर्घादभ्या- सावर्णान्परस्य नुद् स्यात्॥ आनशे । अशिता। अष्टा । अशिष्यते । अक्ष्यते । अश्नुवीत। अक्षीष्ट। अशिषीष्ट। आशिष्ट। आष्ट। आक्षाताम् ॥ १ ॥ षिध आस्कन्दने । स्तिघ्नुते। तिष्टिघे। स्तेघिता ॥ २ ॥ अथ आगणान्तात्परस्मैपदिनः ॥ तिक तिग गतौ च। चादास्कन्दने। तिक्नोति । तिग्नोति ॥ २ ॥ षध हिंसायाम् । सध्नोति ॥ जिधृषा प्रागल्भ्ये ॥ धृष्णोति । दधर्ष । धर्षिता ॥ ४ ॥ दम्भु दम्भने । दम्भनं दम्भः । दध्नोति । ददम्भ ॥ श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लिटः कित्त्वं वेति व्याकरणान्तरमिहाप्याश्रीयत इत्यु- क्तम् । अनिदितामिति नलोपः । तस्याभीयत्वेनासिद्धत्वादेत्त्वाभ्यासलोपयोःप्राप्तौ ॥ दम्भेश्च* ॥


१ प्रहिणोतीति। गुणस्य स्थानिवत्त्वाद् हिनुशब्दोऽत्र बोध्यः॥ "पूर्वत्रासिद्धे न स्थानिवत्" इति तु न, “तस्य दोषः संयोगादिलोप” इत्यादिना निषेधात्॥ २ "हेरचङि" इति। "अचङि" इति पर्युदासो न्याय्यः, इति शेखरकृत् । ण्यन्तस्य हिनोतिग्रहणेनाग्रहणाद् “अजीहयत्” इत्यत्र कुत्वाप्राप्ते "अचङि" इति प्रतिषेध एव “प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणम्" इति परिभाषां ज्ञापयति ॥ ननु "हिनोतेरभ्यासात्परस्य कुत्वम्" इति खलु सूत्रार्थः। ततश्च ण्यन्तेऽपि "अजीहयत्" इत्यत्र हिनोतेरेवाभ्यासो नान्यस्य। चङ्परक- धात्ववयवस्यैकाच एव द्वित्वविधानात् । एवं च कुत्वप्राप्तेरव्याघातात् कथं प्रतिषेधानर्थक्यमिति चेन्न, ण्वुल्तृन्- प्रकृतिकाचक्षाणण्यन्तात्सन "जिहायकयिषति" इत्यत्र कुत्ववारणाय हि "धातुनिष्ठाङ्गसंज्ञानिमित्तभूतप्रत्यय- प्रयुक्तद्वित्वनिमित्तकाभ्यासात् परस्य कुत्वम्" इत्यर्थस्य प्रत्यासत्तिमूलकस्य अवश्यमभ्युपेयतया प्रकृते द्वित्वनि- मित्तभूतस्य चङ्प्रत्ययस्य णिजन्तनिष्ठाङ्गसंज्ञानिमित्तत्वेऽपि हिधातुनिष्ठाङ्गसंज्ञानिमित्तत्वाभावेन कुत्वाप्राप्तेः प्रतिषेधानर्थक्यमित्याशयात् । इयं च कुत्वविषयैव। तदुक्तं भाष्ये- "हेश्चङि प्रतिषेधानर्थक्यमङ्गान्यत्वात्” ज्ञापकं तु "चङोऽन्यत्र ण्यन्तेऽपि कुत्वभावस्य" इति ॥ ३ "अश्नोतेः" इति । "अशोः" इति वक्तव्येऽ- श्रौतिव्यावृत्त्यर्थं श्नुनिर्देशः ॥ ४ इहाप्याश्रीयत इति । "सदेः परस्य लिटि" इति सूत्रस्थः "परि- षस्वज" इति भाष्यप्रयोगः, "देभतुः" इति "अत एक-" इति सूत्रस्थभाष्यप्रयोगश्चेह मानम् ॥ ५ "दम्भेश्च" इति । "अत एक-" इति सूत्रे भाष्ये वार्तिकम् ॥