भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 384, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 384

( ३३८ ) सिद्धान्तकौमुद्याम्- अथ स्वादिप्रकरणम् । षुञ् अभिषवे । अभिषवः स्नपनं पीडनं स्नानं सुरासंधानं च । तत्र स्नानेऽकर्मकः ॥ स्वादिभ्यः श्नुः ॥ ३।१।७३ ॥ सुनोति । सुनुतः ॥ 'हुश्नुवोरिति यण्—सुन्वन्ति । सुन्वः । सुनुवः । सुन्वहे । सुनुवहे । सुषाव । सुषुवे । सोता । सुनु । सुनवानि । सुनवै । सुनु- यात् । सूयात् । 'स्तुसुधूञ्भ्य इतिट्—असावीत् । असोष्ट ॥ अभिषुणोति । अभ्यषुणोत् । अभिसुषाव ॥ सुनोतेः स्यसनोः । ८।३।११७ ॥ स्ये सनि च परे सुञः षो न स्यात् ॥ विसोष्यति ॥ १ ॥ षिञ् बन्धने । सिनोति । विसिनोति । सिषाय । सिष्ये । सेता ॥ २ ॥ शिञ् निशाने । तालव्यादिः । शेता ॥ ३ ॥ डुमिञ् प्रक्षेपणे । ‘मीनातिमिनोती’त्यात्त्वम् ।

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध) · पृष्ठ 384, कुल 835 में से · BharatKosha