वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 405, कुल 835 में से
संदर्भ में पढ़ेंतिङन्ते चुरादिप्रकरणम् । ( ३५७ ) गल स्रवणे ॥ ३१ ॥ भल आभण्डने ॥ ३२ ॥ कूट औप्रदाने । अवसादने इत्येके ॥ ३३ ॥ कुट्ट प्रतापे ॥ ३४ ॥ वञ्चु प्रलम्भने ॥ ३५ ॥ वृष शक्तिबन्धने । शक्तिबन्धनं प्रजननसामर्थ्यं शक्तिबन्धश्च । वर्षयते ॥ ३६ ॥ मद् तृप्तियोगे ॥ मादयते ॥ ३७ ॥ दिव परिकूजने ॥ ३८ ॥ गृ विज्ञाने ॥ गारयते ॥ ३९ ॥ विद् चेतनाख्याननिवासेषु । वेद- यते ॥ ४० ॥ सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे ॥ विन्दते विन्दति प्राप्तौ श्यन् लुक्श्नम्शेष्विंदं क्रमात् ॥ मान स्तम्भे ॥ मानयते ॥ ४१ ॥ यु जुगुप्सायाम् । यावयते ॥ ४२ ॥ कुस्म नाम्नो वा ॥ कुस्मेति धातुः कुत्सितस्मयने वर्तते । कुस्मयते । अचुकुस्मत ॥ ४३ ॥ अथवा कुस्मेति प्रातिपदिकं ततो धात्वर्थे णिच् ॥ इत्याकुस्मीयाः ॥ ॥ चर्च अध्य- यने ॥ १ ॥ बुक्क भाषणे ॥ २ ॥ शब्द उपसर्गादाविष्कारे च । चाद्भूषणे । प्रति- शब्दयति । प्रतिश्रुतमाविष्करोतीत्यर्थः ॥ अनुपसर्गाच्च ॥ आविष्कारे इत्येव । शब्दयति ॥ ३ ॥ कण निमीलने ॥ काणयति ॥ 'णौ चङ्युपधाया ह्रस्वः' ॥ 'काण्यादीनां वेति विकल्प्यते । अचीकणत् । अचकाणत् ॥ ४ ॥ जभि नाशने । जम्भयति । जम्भति ॥ ५ ॥ षूद क्षरणे । सूदयति । असूषदत् ॥ ६ ॥ जसु ताडने । जासयति । जसति ॥ ७ ॥ षश बन्धने । पाशयति ॥ ८ ॥ अम रोगे । आमयति । 'नान्त्ये मितः' इति निषेधः । अम गत्यादौ शपि गतः । तस्माद्धेतुमण्णौ 'न कम्यमिचमामिति निषेधः । आमयति ॥ ९ ॥ चट स्फुट भेदने । विकासे शशयोः स्फुटति स्फोटते इत्युक्तम् ॥ ११ ॥ घट संघाते । घाटयति ॥ १२ ॥ हन्त्यर्थाश्च ॥ नवगण्यामुक्ता अपि हन्त्यर्थाः स्वार्थे णिचं लभन्त इत्यर्थः ॥ दिवु मर्दने ॥ उदित्त्वाद्देवेतीत्यपि ॥ १३ ॥ अर्ज प्रतियत्ने । अयमर्थान्तरेऽपि । १ भल आभण्डने इति । आभण्डनमत्र लक्षणखरूपप्रामाण्यादिप्रकारकज्ञानानुकूलव्यापाररूपम् ॥ २ आप्रवणे इति पाठान्तरम् ॥ ३ "नाम्नो वा" इत्यंशं व्याचष्टे-अथवेति ॥ नामत्वमस्य नाव्युत्पन्नतवेन । किं तु कुशब्दात्पूर्वकस्मयतेः "अन्यभ्योऽपि" इति डप्रत्यये "कुगति-" इति समासे बोध्यम् ॥ धात्वर्थे इति । करोतीत्यर्थे आचष्टे इत्यर्थे वेत्यर्थः । "धात्वर्थे" इत्यस्य लाभस्तु "प्रातिपदिकाद्धात्वर्थे बहुलम्-" इत्यस्य व्यापारसत्त्वात् ॥ ४ शब्द उपसर्गादिति । यद्यपि शब्दशब्दात् "तत्करोति" इति णिचि "शब्दयति प्रतिशब्दयति" इत्यादि सिद्धम्, तथापि "शब्दवैर-" इति क्यङा बाधाभावाय ग्रहणम्, अन्यथा "शब्दवैरकलह-" इत्यत्र शब्दशब्दस्य विशिष्योपादानात् क्यङा णिचो बाधः स्यात् ॥ ५ नान्त्ये मित इति । "न कम्यमि-" इति निषेधस्तु चमिसाहचर्यात् पूर्वोत्तरसाहचर्याच्च हेतुमण्णावे- वेति भावः ॥ ६ तस्माद्धेत्विति । "न कम्यमि-" इति निषेधाद् वृद्धिर्भवत्येवेति भावः ॥ ७ हन्त्यर्थाश्चेति । तेषां तत्तद्गणे पाठसामर्थ्याद् णिज् वा । एवं "कृपेक्ष्व" इत्यनेन स्वार्थेऽत्र णिग्विधा- नात् कृपधातोर्न्वादौ पाठसामर्थ्यात् कृपेरपि णिज्विकल्पः । "हन्त्यर्थांश्च" इत्येतद्वचनसामर्थ्यात् "निवृ- त्तप्रेषणात्" इत्यसार्वत्रिकम् । अन्यथा हन्त्यर्थेभ्योऽपि धातुभ्यो निवृत्तप्रेषणेभ्यो हेतुमण्णौ, स्वार्थे णिचि योऽर्थस्तस्य लाभे "हन्त्यर्थांश्च" इति स्वार्थे णिग्विधायकं वचनं व्यर्थमेव स्यात् ॥ ८ उदित्त्वादिति । तद्धि क्त्वायाम्-"उदितो वा" इतीड्विकल्पार्थं क्रियते । यदि चास्माद् णिज् विकल्पेन न भवेत्, तर्हि णिचा व्यवधानाद् इडागमप्राप्तिरेव नेति कृत्वा उदित्करणं व्यर्थमेव स्यात् । तस्मादस्माद् णिजनित्य इति भावः ॥