वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 412, कुल 835 में से
संदर्भ में पढ़ेंचष्टे कृल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकमिति * ॥ कंसंवधमाचष्टे कंसं घातयति । इह कंसं हन् इ इति स्थिते-॥ हनस्तोऽचिण्णलोः । ७ । ३ । ३२ ॥ हन्तेस्तकारोऽन्तादेशः स्याच्चिण्णल्वर्जे ञिति णिति ॥ नन्वत्राङ्गसंज्ञा धातुसंज्ञा च कंसविशिष्टस्य प्राप्ता । ततश्चाङ्गद्वित्वयो- र्दोषः । किंच कुत्वतत्वे न स्याताम् । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् । सत्यम् । प्रकृतिवच्चेति चकारो भिन्नक्रमः कारकं च चात्कार्यम् । हेतुमण्णिचः प्रकृतेर्हन्यादेर्हेतुमण्णौ या- दृशं कारकं धातावनन्तर्भूतं द्वितीयान्तं यादृशं च कार्यं कुत्वतत्वादि तदिहापीत्यर्थः । कंस- मजीघतत् ॥ कर्तृकरणाद्धात्वर्थे ॥ २ कर्तुर्व्यापारार्थं यत्करणं न तु चक्षुरादिमात्रमित्यर्थः । असिना हन्ति । असयति ॥ वष्क दर्शने ॥ १ ॥ ३ चित्रं चित्री