वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 413, कुल 835 में से
संदर्भ में पढ़ेंबयति ॥ अवधीरयतीत्यादि । अन्ये तु दशगणीपाठो बहुलमित्याहुः । तेनापठिताः सौत्रालौकिकवैदिका बोध्याः । अपरे तु नवगणीपाठो बहुलमित्याहुः । तेनापठितेभ्योऽपि त्स्वार्थे णिच् । रामो राज्यमचीकरदिति यथेत्याहुः । चुरादिभ्य एव बहुलं णिजित्यर्थ ये । सर्वे पक्षाः प्राचां ग्रन्थे स्थिताः ॥ णिङ्ङङ्गान्निरसने ॥ अङ्गवाचिनः प्रातिपदिकान्नि- णिङ् स्यात् । हस्तौ निरस्यति हस्तयते । पादयते ॥ श्वेताश्वाश्वतरगालोहिताद्धरका- श्वतेरतकलोपश्च ॥ श्वेताश्वादीनां चतुर्णामश्वादयो लुप्यन्ते णिङ् च धात्वर्थे । श्वेताश्व- ष्टे तेनातिक्रामति वा श्वेतयते । अश्वतरमाचष्टे अश्वयते । गालोडितं वाचां विमर्शः तत्करोति ोडयते । आहरयते । केचित्तु णिचमेवानुवर्तयन्ति, तन्मते परस्मैपदमपि ॥ पुच्छादिषु र्वर्थ इत्येव सिद्धम् ॥ णिजन्तादेव बहुलवचनादात्मनेपदमस्तु । मास्तु पुच्छभाण्डेति ङ्विधिः । सिद्धशब्दो ग्रन्थान्ते मङ्गलार्थः ॥ इति चुरादिप्रकरणम् । अथ ण्यन्तप्रकरणम् । तत्प्रयोजको हेतुश्च १।४।५५ ॥ कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात् ॥ मति च ।३।१।२६ ॥ प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच् स्यात् ॥ भवन्तं ति भावयति । 'णिचश्चेति कर्तृगे फले आत्मनेपदम् । भावयते । भावयांबभूव ॥ ओः पुय- ण्जपरे ।७।४।८० ॥ सनि परे यदङ्गं तदवयवाभ्यासोकारस्येत्त्वं स्यात्पवर्ग्यण्णजकारेष्ववर्ण- परतः ॥ अवीभवत् । अपीपवत् । मूढ् । अमीमवत् । अयीयवत् । अरीरवत् । अलीलवत् । ोजवत् ॥ स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा । ६ । ४ । ८१ ॥ मभ्यासोकारस्येत्त्वं वा स्यात्सन्ध्यक्षरपरे धात्वक्षरे परे ॥ असिस्रवत् । असुस्रवत् । 'नाग्लो- प हस्वनिषेधः । अशाशासत् । अडुढौकत् । अँचिचकासत् । मतान्तरे अचचकासत् । १ णिङ्गादिति । निरसनमत्र प्रक्षेपः ॥ २ श्वेताश्वेति । गणसूत्रम् ॥ "नानर्थकेऽलोऽन्त्यविधिः" निषेधान्नात्रालोऽन्त्यपरिभाषाप्रवृत्तिः । प्रत्याख्याने तु "श्वेताश्वादीनां लोपः" इत्येव सिद्धादश्वतरादीनां करणेन सर्वदिशत्वाक्षतिरिवि बोध्यम् ॥ इति शम् । इति चुरादयः ॥ ३ ओः पुयण्जीति । त्र सूत्रे "ओः" इति व्यर्थम् । तथाहि-अवर्णपरपवर्गादिपरकभ्यासावयवाकारस्य "थियक्षति पिपक्षति" दावित्वप्रवृत्तिरिष्टैव । तादृशश्चेकारो नास्त्येव । उकारस्य चेत्त्वमिष्टमेव । तादृशयोर्ऋकारलृकारयोरपि न्नो नास्ति । वेञ्, रै, पै, वै धातुभ्यो यत्र सन्ति तत्रापि प्रथमत आत्त्वप्रवृत्त्याऽभ्यासे ऽकारस्यैव मिति नैजूव्यावृत्तिः फलमिति पारिशेष्यादुकारस्यैव भविष्यतीति चेन्न, "पापचिषते" "बावचिषते" इत्यादौ तात्प्सनि यङ्गिमित्ताभ्यासावयवाकारस्यान्तरङ्गत्वान् "दीर्घोऽकितः" इति दीर्घे कृतेऽप्यनेनेकारः दिति तद्व्यावृत्त्यर्थत्वात् । नचैतदपि "सनि परे सन्निमित्ताभ्यासावयवस्यैव" इति प्रत्यासत्तिकल्पनेन यितुं शक्यमिति वाच्यम्, एवं तर्हि "द्विर्वचननिमित्ताङ्गाभ्यासावयवस्य द्विर्वचननिमित्तकं कार्यं तन्निमि- स्यास्यैव भवति" इति प्रत्यासत्तिलभ्य एवार्थे तस्य प्रकृतसूत्रस्थस्य "ओः" इति पदस्य ज्ञापकत्व- त्वति कल्पनसंभवात् । तत्फलं तु जङ्गम्यादिभ्यो यङन्तेभ्यः सनि "जङ्गमिषते" इत्यादौ "सन्यतः" त्वाभावः ॥ ४ अचीचकासदिति । "चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघूपरः" इत्यर्थै- द्भावादयः ॥ ५ मतान्तरे इति । भाष्यसिद्धमते "चङ्परे णौ यल्लघु" इत्याद्यर्थे सन्वद्भावाभावः ॥