वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 418, कुल 835 में से
संदर्भ में पढ़ेंमग्गौ शुद्धेन तुल्योऽर्थः । तेन ‘प्रार्थयन्ति शयनोत्थितं प्रियाः ’ इत्यादि सिद्धम् । एवं सक- र्मकेषु सर्वैर्बोध्यम् ॥ इति ण्यन्तप्रकरणम् । अथ सन्नन्तप्रकरणम् । धातोः कर्मणः समानकर्तृकादिच्छायां वा ।३।१।७ ॥ इषिकर्मणः इषिणैक- कर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम् ॥ धातोर्विहितत्त्वादिह सन् आर्धधातुकत्वम् । इट् । द्वित्वम् । सन्यतः । पठितुमिच्छति पिपठिषति ॥ कर्मणः किम् ? गमनेनेच्छतीति करणान्मा भूत् ॥ समानकर्तृकात्किम् ? शिष्याः पठन्त्वितीच्छति गुरुः ॥ वाग्रहणात्पक्षे वाक्य- मपि । लुङ्सनोर्घस्ऌ । एकाच उपदेश इति नेट् । सस्य तत्त्वम् । अत्तुमिच्छति-जिघत्सति । ‘ईर्ष्यतेस्तृतीयेस्येति यिसनोर्द्वित्वम् । ईर्ष्यियिषति । ईर्ष्यिषिषति ॥ रुदविदमुष