वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 425, कुल 835 में से
संदर्भ में पढ़ेंवीति । जावात्ति । अजाघात् । सिपि रुत्वपक्षे अजाघाः ॥ नाथृ । नानात्ति । नानात्तः । दध । दादद्धि । दादद्धः । दाधत्सि । अदाधत् । अदादद्धाम् । अदादधुः । अदाधः । अदा- धत् । लुङि । अदादाधीत् । अश्रदधीत् ॥ चोस्कुन्दीति । चोस्कुन्ति । अचोस्कुन् । अचोस्कुन्ताम् । अचोस्कुन्दुः ॥ मोमुदीति । मोमोत्ति । मोमोदांचकार । मोमोदिता । अमो- मुदीत् । अमोमोत् । अमोमुत्ताम् । अमोमुदुः । अमोमुदीः । अमोमोः । अमोमोत् । लुटि गुणः । अमोमोदीत् ॥ चोकूर्त्ति । चोकूर्दीति । लङ् तिप् । अचोकूत्त् । अचोकूर्दीत् । सिप् रूपक्षे अचोकूः । अचोखूः । अजोगूः ॥ वनीवञ्चीति । वनीवक्ति । वनीविक्तः । वनीवञ्चति । अवनी- वञ्चीत् । अवनीवन् ॥ जङ्ग्मीति । जङ्गन्ति । 'अनुदात्तोपदेशेत्यनुनासिकलोपः । जङ्गतः । जङ्ग्मति । 'म्नोश्च' जङ्गन्मि । जङ्ग्वः । एकाज्ग्रहणेनोक्तत्वान्नेन्निषेधः जङ्ग्मिता । अनुनासिकलोपस्याभीयत्वेनासिद्धत्वान्न हेर्लुक् । जङ्ग्हि ॥ 'मो नो धातोः' अजङ्गन् । अनु- बन्धनिर्देशान्न च्लेरङ् । 'ह्यन्तइति न वृद्धिः । अजङ्ग्मीत् । अजङ्गिष्टाम् ॥ हन्तेर्यङ्लुक् । 'अभ्यासाच्चेति कुत्वं यद्यपि हो हन्तेरित्यतो हन्तेरित्यनुवर्त्य विहितं तथापि यङ्लुकि भव- त्येवेति न्यासकारः ।' शितपा शपेति निषेधस्त्वनित्यः ।'गुणो यङ्लुकोरिति सामान्यापेक्षज्ञा- पकादिति भावः । जङ्घनीति । जङ्घन्ति । जङ्घतः जङ्घ्नति । जङ्घनिता । शितपा निर्देशा- जादेशो न । जङ्घवहि । अजङ्घनीत् । अजङ्घन् । जङ्घन्यात् । आँशिषि तु-वध्यात् । अव- धीत् । अवधिष्टामित्यादि ॥ वधादेशस्य द्वित्वं तु न भवति स्थानिवत्त्वेनानभ्यासस्येति निषेधात् । तद्धि समानाधिकरणं धातोर्विशेषणम् । बहुव्रीहिवलात् । आङ्पूर्वात्तु 'आडो यम- हनः' इत्यात्मनेपदम् । आजङ्घते इत्यादि ॥ 'ऋत्परस्येति तपरत्वान्न गुणः । 'हलि चेति दीर्घस्तु स्यादेव । तस्यासिद्धत्वेन तपरत्वनिवर्त्यत्वायोगात् । चञ्चुरीति । चञ्चूर्त्ति । चञ्चूर्त्तः । चञ्चु- रति । अचञ्चुरीत् । अचञ्चूः । चङ्कनीति । चङ्कन्ति । 'जनसनेत्यात्त्वम् । चङ्खातः । 'गम- हनेत्युपधालोपः-चङ्ख्नति । चङ्खाहि । चङ्खनानि । अचङ्कनीत् । अचङ्खन् । अचङ्खाताम् । १ वनीवञ्चीतीति । "नीग् वञ्चु-" इत्यनुबन्धनिर्देशान्नीगु दुर्लभ इति तु नाशङ्क्यम् "यङ्लुकोः" इत्यनुवृत्तिसामर्थ्येनादोषात् । प्रत्ययलक्षणेन यन्निमित्तः "अनिदिताम्-" इति नलोपः स्यादित्यपि नाशङ्क्यम्, लुका लुप्तत्वेन "न लुमता-" इति निषेधात् ॥ २ वनीवक्त इति । ईकारोच्चारणसामर्थ्याद् "गुणो यङ्लुकोः" इति नीगादेर्गुणो न ॥ ३ सामान्यापेक्षेति । एकाचो द्वित्वं विधीयते तत्र च "शितपा शपा-" इति निषेधादभ्यासत्वाभावेन विधानवैयर्थ्यं स्पष्टमेवेति भावः ॥ ४ आशिषि तु वध्यादिति । प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणादिति भावः ॥ कृतद्विर्वचनस्य वधादेशे पुनर्द्वित्वाभावे हेतुमाह-स्थानिवत्त्वेनेति । "द्यतेः-" इति सूत्रस्थेन बभूवेत्यत्र द्वित्वोत्तरं परस्य भूभावे पूर्वस्य श्रवणापादकभाष्येण उत्तरखण्डस्यैव वधादेशे "जंवध्यात्" इत्येव रूपमिति बोध्यम् ॥ 'लिङि' 'लुङि' इति सप्तम्या विषयसप्तमीत्वसिद्धान्ते तद्विवक्षायामेव वधादेशे यङ्लुकोर्द्वित्वे वावध्यादित्या- दीन्येव रूपाणि भवन्तीति प्रतिभाशालिन उच्छृङ्खलाः ॥ छान्दसेषु दर्शनमन्तरा आपातमानरूपभाव एव मन्तव्य इति दाधिमथाः ॥ ५ धातोर्विशेषणमिति । अशास्त्रीयस्याप्यतिदेश इति मतेनेदम् ॥ ६ असिद्धत्वेनेति । तत्त्वञ्च त्रिपादीस्थत्वेन । वस्तुत इदश्चिन्त्यम्, अपरनिमित्तकस्य तपरसूत्रस्यान्तरङ्गत्वेन तदृष्ट्या गुणस्य बहिरङ्गत्वात् ॥