वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 43, कुल 835 में से
संदर्भ में पढ़ेंविक्रमादित्यस्योक्तिमनुसृत्य साक्षाद्दौहित्राय विक्रमादित्याय देयमिति निश्चितमपि राज्यं भर्तृहरये धारापतिः प्रादात् । ततः तदमात्यपदमङ्गीचकार विक्रमादित्यः । ततः किञ्चित्कालानन्तर- ममात्योयं धारां विहायोज्जयिन्यां राज्यभाराय भ्रातरं भर्तृहरिं राजानं प्रबोध्य तत्र राज्यम- करोत् । तदभ्यन्तरे कदाचिद्राज्ञा स्त्रीकामुकेन भर्तृहरिणा विरोधमुपलभ्यामात्यपदं विहाय विन्ध्यस्योत्तरदिशि सञ्चरन् ढक्कानगरं प्राप्य तत्र स्वशौर्येण तद्राज्यं लब्ध्वा तत्परिपालय- न्विक्रमनगराभिधया तदाह्वस्त । एवं च पितुश्चन्द्रगुप्तस्य राज्याभावः पुत्रस्य विक्रमादित्यस्य तु राज्यं युज्यत एवेति केचित् । ( तत्रेदं वक्तव्यम् ) । अस्तूक्तरीत्या पुत्रस्य राज्यम् । विक्रमादित्यभर्तृहरी न चन्द्रगुप्तद्विजपुत्रौ स्तः । किन्तु गन्धर्वसेनस्येत्युक्तमनुपदमेव । अ