वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 432, कुल 835 में से
संदर्भ में पढ़ें( ३८४ ) सिद्धान्तकौमुद्याम्- पसर्गरूपं सकलं श्रूयते, न त्वादेशेनापहृतं, तत्रैव पृथक्कृतिः । एवं च आ ऊढः ओढः स इवाचर्य ‘ओढायित्वा’ अत्र उन्मनाय्य अवगल्भ्येतिवन्न ल्यप् । ज्ञापकस्य विशेषविषयत्वे षष्ठं वार्तिकं तद्भाष्यं च प्रमाणम् ॥ तथा हि-उस्योमाङोश्चाटः प्रतिषेधः * ॥ उसि ओमाङोश्च परयोराटः पररूपं नेत्यर्थः । उस्रामैच्छत् औस्रीयत् । औङ्कारीयत् । औढीयत् । ‘आटश्चेति चशब्देन पुनर्वृद्धिविधानादिदं सिद्धमिति पाठे स्थितम् ॥ लोहितादिडाज्भ्यः क्यष् ।३।१।१३ ॥ लोहितादिभ्यो डाजन्ताच भवत्यर्थे क्यष् स्यात् ॥ वा क्यषः ।१।३।९० ॥ क्यषन्तात्परस्मैपदं वा स्यात् । लोहितायति । लोहितायते । अत्राच्चेरित्यनुवृत्त्याऽभूततद्भाव- विषयत्वं लब्धं तच्च लोहितशब्दस्यैव विशेषणम् । न तु डाचोऽसंभवात् । नाप्यादिशब्द- ग्राह्याणाम् । तस्य प्रत्याख्यानात् । तथा च वार्तिकम् ॥ लोहितडाज्भ्यः क्यष्वचनं भृशा- दिष्वितराणीति * ॥ न चैवं काम्यच इव क्यषोऽपि ककारः श्रूयेत उच्चारणसामर्थ्यादिति वाच्यम् । तस्यापि भाष्ये प्रत्याख्यानात् । पटपटायति । पटपटायते । कृभ्वस्तियोगं विना- पीह डाच् । डाजन्तात् क्यषो विधानसामर्थ्यात् ॥ यत्तु- ‘लोहितश्यामदुःखानि हर्षगर्वसुखानि च । मूर्च्छानिद्राकृपाधूमाः करुणा जिह्मचर्मणी ॥’ इति पठित्वा श्यामादिभ्योऽपि क्यषि पदद्वयमुदाहरन्ति ॥ तद्भाष्यवार्तिकविरुद्धम् । तस्मा- त्तेभ्यः क्यङेव । श्यामायते ॥ दुःखादयो वृत्तिविषये तद्वति वर्तन्ते ॥ लिङ्गविशिष्टपरिभाषया लोहिनीशब्दादपि क्यष् । लोहिनीयाति । लोहिनीयाते ॥ कष्टाय क्रमणे ।३।१।१४ ॥ चतु- र्थ्यन्तात्कष्टशब्दादुत्साहेऽर्थे क्यङ् स्यात् ॥ कष्टाय क्रमते कष्टायते । पापं कर्तुमुत्सहते इत्यर्थः ॥ सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम् * ॥ कण्वं पापम् । सत्रादयो वृत्तिविषये पापार्थाः । तेभ्यो द्वितीयान्तेभ्यश्चिकीर्षायां क्यङ् । पापं चिकीर्षतीत्य- १ आटः प्रतिषेध इति । 'उस्यपदान्तात्' 'ओमाङोश्चेति प्राप्तस्य पररूपस्य प्रतिषेध इत्यर्थः । एतत्प्रतिषेधसामर्थ्यात् प्रकृते 'अर्थवद्ग्रहणे' इति परिभाषायाः प्रतिपदोक्तपरिभाषायाश्चाप्रवृत्तिरिति बोध्यम् । विशेषापेक्षज्ञापकाभावे तु प्रकृतवार्तिकोदाहरणविषयेऽप्याडः पृथक्कृतिः स्यादिति क्यच्प्रत्यय ऊढ- शब्दात् स्यात् तदन्ताल्लुङि कृते आडागम आडः परो जायेत ततश्च "ओमाङोश्च" इत्यस्य प्राप्तिरेव नास्तीति वार्तिकस्योक्तिसंभवो न स्यादिति भावः ॥ २ उस्रामैच्छदिति । उस्रा=गौः ॥ ३ तस्येति । आदिशब्दस्य । ४ तस्यापीति । ककारस्यापि । नच ककारो “नः क्ये” “क्यस्य विभाषा” इत्यत्र विशेषणार्थोऽस्त्विति वाच्यम्, लोहितडाज्भ्य एव क्यष्विधानेन फलाभावात् । “वा क्यषः” इत्यत्रापि “वा यषः” इत्येवास्तु ॥ ५ तद्भाष्येति । "लोहितडाज्भ्यः क्यष्वचनम्” “भृशादिष्वितराणि” इति वार्तिकभाष्येत्यर्थः । ६ कष्टाय क्रमणे इति । अत्र सूत्रे मण्डूकप्लुत्या क्यङ्ग्रहणमनुवर्तते तदाह-क्यङ् स्यादिति । नच “लोहितादिडाच्” इति सूत्रे क्यष्ग्रहणमकृत्वा “लोहितादिडाज्भ्यो ञिश्च” इति पठनीयम्, क्यङस्तत्राप्यनुवृत्तिः कार्या प्रकृतसूत्रे च मण्डूकप्लुतिर्न स्वी- कार्या, “वा क्यषः” इति सूत्रं च न कार्ये ञित्त्वादेवोभयपदसिद्धेरिति वाच्यम्, लोहिनीशब्दात् क्यङि “क्यङ्मानिनोश्च” इति पुंवद्भावापत्तेः । कर्तृगामिक्रियाफलविवक्षायां परस्मैपदाभावापत्तेश्च ॥