भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 433, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 433

ि स्युः । सुखं वेदयते सुखा- यते । कर्तृग्रहणं किम् ? परस्य सुखं वेदयते ॥ नमोवरिवश्चित्रङः क्यच् । ३ । १ । १९ ॥ करणे इत्यनुवृत्तेः क्रियाविशेषे पूजायां परिचर्यायामाश्चर्ये च ॥ नमस्यति देवान् । पूजयतीत्यर्थः । वरिवस्यति गुरून् । शुश्रूषत इत्यर्थः । चित्रीयते । विस्मयत इत्यर्थः । विस्मापयत इत्यन्ये ॥ पुच्छभाण्डचीवराणिङ् । ३ । १ । २० ॥ पुच्छादुदसने व्यसने पर्यसने च * ॥ विविधं विरुद्धं वोत्क्षेपणं व्यसनम् । उत्पुच्छयते । विपुच्छयते । परि- पुच्छयते ॥ भाण्डात्स‌माचयने * ॥ संभाण्डयते । भाण्डानि समाचिनोति । राशी- करोतीत्यर्थः । समवभाण्डत ॥ चीवरादर्जने परिधाने च * ॥ सञ्चीवरयते भिक्षुः । चीव- राण्यर्जयति परिधत्ते वेत्यर्थः ॥ मुण्डमिश्रश्लक्ष