भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 434, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 434

णिच् । ३।१।२१ ॥ कृञर्थे । मुण्डं करोति मुण्डयति ॥ व्रताद्भोजनतन्निवृत्त्योः * ॥ पयः शूद्रान्नं वा व्रतयति ॥ वस्त्रात्समाच्छादने * ॥ १ संवस्त्रयति ॥ हल्यादिभ्यो ग्रहणे * ॥ हलिकल्योरदन्तत्वं च* ॥ निपात्यते । हलिं कलिं वा गृह्णाति । हलयति । कलयति । महद्गलं हलिः । २ परत्वाद्वृद्धौ सत्यामपीष्ठवद्भावेन अगेव लुप्यते । अतः सन्वद्भावदीर्घौ न । अजहलत् । अचकलत् ॥ कृतं गृह्णाति कृतयति ॥ तूस्तानि विहन्ति वितूस्तयति । तूस्तं केशा इत्येके । जटीभूताः केशा इत्यन्ये । पापमित्यपरे ॥ मुण्डादयः ‘सत्यापपाशेत्यत्रैव पठितुं युक्ताः ॥ ‘प्रातिपदिकाद्धात्वर्थे’ इत्येव सिद्धे केषांचिद्ग्रहणं ३ सापेक्षेभ्योऽपि णिजर्थम् । मुण्डयति माणवकम् ।

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध) · पृष्ठ 434, कुल 835 में से · BharatKosha