भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 435, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 435

तत्र यथा वृढशब्दद्वित्वं तथोढिशब्दस्य न" इति ध्वनयितुमेतदुपादानम् । उपसर्गसमानाकारस्य परिशब्दस्य पृथक्कृतिरत्र द्रष्टव्या ॥ ५ असिद्धत्वादिति । द्वित्वे तदसिद्धत्वेन हकारघटितबुद्ध्या द्वित्वेऽभ्यासे शिष्टस्य हकारस्य चुत्वसिद्धिः ॥ ६ औडिढदिति । ननु ढिशब्दद्वित्वेऽपि अभ्यासावयवस्य चुत्वे कर्तव्ये ढत्वस्यासिद्धत्वाद् "औजिढत्" इति स्यादिति चेन्न, द्वित्वे कृते तदाश्रयस्य कार्यान्तरे कर्तव्येऽप्य- सिद्धत्वनिषेधान्नाभ्यासे चुत्वादीत्याशयात् । ७ अन्यथासिद्धिपरत्वादिति । वृत्तिकृता "प्रकृत्यै- काच्" इति सूत्रस्य प्रेयान् प्रेष्ठ इत्याद्युदाहरणमदायि, तत्र चान्तरेणापि प्रकृतिभावं प्रस्थाद्यादेशविधायक- शास्त्रस्य "असिद्धवदत्र-" इत्यनेनासिद्धत्वात्, प्रस्थादावकारोच्चारणाच्च लोपाभावः साधितो भाष्ये, स्रग्विन्- स्रजिष्ठ इत्यादावपि लोपापवाद