भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 445, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 445

तिङन्ते आत्मनेपदप्रकरणम् । (३९७) त्वात्पररूपम् । प्रारम्भेऽनयोस्तुल्यार्थता । प्रक्रमते । उपक्रमते ॥ समर्थाभ्यां किम् ? प्रक्रामति गच्छतीत्यर्थः । उपक्रामति । आगच्छतीत्यर्थः ॥ अनुपसर्गाद्वा ॥१।३।४३ ॥ क्रामति । क्रमते । अप्राप्तविभाषेयम् ॥ वृत्त्यादौ तु नित्यमेव ॥ अपह्नवे ज्ञः ॥१।३।४४ ॥ शतमप- जानीते । अपलपतीत्यर्थः ॥ अकर्मकाच्च ॥१।३।४५ ॥ सर्पिषो जानीते । सर्पिषा उपायेन प्रवर्तते इत्यर्थः ॥ संप्रतिभ्यामनाध्याने ॥१।३।४६ ॥ शतं संजानीते । अवेक्षत इत्यर्थः । शतं प्रतिजानीते । अङ्गीकरोतीत्यर्थः । ‘अनाध्याने’ इति योगो विभज्यते । तत्सामर्थ्याद् ‘अकर्मकाच्च’ इति प्राप्तिरपि वार्यते । मातरं मातुर्वा संजानाति । कर्मणः शेषत्वविवक्षायां षष्ठी ॥ भासनोपसंभाषाज्ञानयत्न

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध) · पृष्ठ 445, कुल 835 में से · BharatKosha