वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 446, कुल 835 में से
संदर्भ में पढ़ेंकिम् ? संगिरति ग्रासम् ॥ उदश्चरः सकर्मकात् । १।३।५३ ॥ धर्ममुच्चरते । उल्लङ्घ्य गच्छतीत्यर्थः । सकर्मकात्किम् । बाष्पमुच्चरति । उपरिष्टाद्गच्छतीत्यर्थः ॥ समस्तृतीया- युक्तात् । १।३।५४ ॥ रथेन संचरते ॥ दाणश्च सा चेच्चतुर्थ्यर्थे । १।३।५५ ॥ संपूर्वा- द्दाणस्तृतीयान्तेन युक्तादुक्तं स्यात् तृतीया चेच्चतुर्थ्यर्थे । दास्या¹ संयच्छते । पूर्वसूत्रे ‘ सम् ’² इति षष्ठी । तेन सूत्रद्वयमिदं व्यवहितेऽपि प्रवर्तते । रथेन समुदाचरते । दास्या संप्रयच्छते ॥ उपाद्यमः स्वकरणे । १।३।५६ ॥ स्वकरणं स्वीकारः । भार्यामुपयच्छते ॥ विभाषो- पयमने । १।२।१६ ॥ यमः सिच् किद्वा स्याद्विवाहे । रामः सीतामुपायत उपायंस्त वा । उदवोढेत्यर्थः । बन्धनाङ्गे उपयमे तु पूर्वविप्रतिषेधान्नित्यं कित्त्वम् ॥ ज्ञाश्रुस्मृदृशां सनः । १।३।५७ ॥ सन्नन्तानामेषां प्राग्वत् ॥ धर्मं जिज्ञासते । शुश्रूषते । सुस्मूर्षते । दिदृक्षते ॥ नानोर्ज्ञः । १।३।५८ ॥ पुत्रमनुजिज्ञासति । पूर्वसूत्रस्यैवायं निषेधः । अनन्तर- स्येति न्यायात् । तेनेह न–सर्पिषोऽनुजिज्ञासते । सर्पिषा प्रवर्तितुमिच्छतीत्यर्थः । ‘ पूर्ववत्सनः ’ इति तङ् । ‘अकर्मकाच्चेति केवलाद्विधानात् ॥ प्रत्याङ्भ्यां श्रुवः । १।३।५९ ॥ आभ्यां सन्नन्ताच्छ्रुव उक्तं न स्यात् । प्रतिशुश्रूषति । आशुश्रूषति ॥ कर्मप्रवचनीयात्³स्यादेव– देवदत्तं प्रतिशुश्रूषते ॥ शदेः शितः । १।३।६० ॥ म्रियतेर्लुङ्लिङोश्च । १।३।६१ ॥ व्याख्यातम् ॥ पूर्ववत्सनः । १।३।६२ ॥ सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादात्मने- पदं स्यात् । एदिधिषते । शिशयिषते । निविविक्षते ॥ पूर्ववत्किम् । बुभूषति ॥ शदेरित्यादि- सूत्रद्वये सनो नेत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेनेह न–शिशत्सति⁴ । मुमूर्षति ॥ आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य । १।३।६३ ॥ एधांचक्रे ॥ प्रोपाभ्यां युजेरयज्ञपात्रेषु । १।३।६४ ॥ प्रयुङ्क्ते । उपयुङ्क्ते ॥ स्व⁵राद्यन्तोपसर्गादिति वक्तव्यम् * ॥ उद्युङ्क्ते । नियुङ्क्ते ॥ अयज्ञपात्रेषु किम् । द्वन्द्वं⁶ न्यञ्चि पात्राणि प्रयुनक्ति ॥ समः क्ष्णुवः । १।३।६५ ॥ संक्ष्णुते शस्त्रम् ॥ भुजोऽनवने । १।३।६६ ॥ ओदनं भुङ्क्ते । अभ्यवहरतीत्यर्थः । बुभुजे पृथिवीपालः पृथिवीमेव केवलम् । वृद्धो जनो दुःखशतानि भुङ्क्ते । इहोप⁷भोगो भुजेरर्थः । अनवने किम् । महीं भुनक्ति ॥ णेरणौ यत्कर्म णौ चेत्स कर्तानाध्याने । १।३।६७ ॥
१ दास्या संयच्छते इति । कामुकः संस्तस्यै ददातीत्यर्थः । “ अशिष्टव्यवहारे चतुर्थ्यर्थे तृतीया वक्तव्या ” इति तृतीया ॥ २ “ समः ” इति पञ्चमीनिर्देशाद् व्यवहिते न स्यादिति शङ्कामपाकरोति-पूर्वसूत्र इति । सूत्रद्वयमिति ॥ सर्वस्यास्य प्रकरणस्योपलक्षणमिति ‘शदेः शितः’ इति भाष्ये ध्वनितमिति बोध्यम् ॥ ३ प्रत्यासत्त्या श्रुधात्वर्थविशेषकावेव प्रत्याङौ गृह्येते तौ चोपसर्गाविवे- त्याशयेनाह-कर्मप्रवचनीयात्स्यादेवेति । ते हि सम्बन्धपरिच्छेदका, न क्रियाविशेषका इति स्पष्टमेव ॥ ४ ननु शिशत्सतीत्यादौ शिदादिविषयशदिम्रियत्योरात्मनेपदविधानाच्छिद्विषयसन्नन्तादपि प्राप्नोतीत्यत आह-वाक्यभेदेनेति ॥ ५ स्वराद्यन्तेति । स्वरोऽच् आदिरन्तो वा यस्य, स चासावुपसर्गस्तस्मात् । स्वराद्युपसर्गात् स्वरान्तोपसर्गाच्चेत्यर्थः । सम् निस् निर् दुस् दुर् एतद्भिन्नाः सर्वेऽप्युपसर्गाः संगृहीताः ॥ ६ द्वन्द्वं न्यञ्चीति । न्यञ्चि न्यूब्जीकृतानि, पात्राणि द्वन्द्वं प्रयुनक्तीत्यर्थः ॥ ७ उपभोग इति । विषयसम्बन्धजन्यसुखविशेष उपभोगः ॥