वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 452, कुल 835 में से
संदर्भ में पढ़ेंधिषाताम् । अघानिष्यत । अहनिष्यत । न च स्यादिषु चिण्वदित्यातिदेशाद्वधादेशः स्यादिति वाच्यम् । अङ्गस्येत्यधिकारादाङ्कस्यैवातिदेशात् ॥ गृह्यते । चिण्वदितो न दीर्घत्वम् । प्रकृतस्य वलादिलक्षणस्यैवेटो ‘ग्रहोऽलिटि’त्यनेन दीर्घविधानात् । ग्राहिता । ग्रहीता । ग्राहिष्यते । ग्रहीष्यते । ग्राहिषीष्ट । ग्रहीषीष्ट । अग्राहि । अग्राहिषाताम् । अग्रहीषाताम् ॥ दृश्यते । अदर्शि । अदर्शिषाताम् । सिचः कित्त्वान्न । अदृक्षाताम् ॥ गिरतेर्लुङि ध्र्वि चतुरधिकं शतम् । तथा हि । चिण्वदितो दीर्घो नेत्युक्तम् । अगारिध्वम् । द्वितीये त्विटि ‘वृत्तो वेति वा दीर्घः । अगरीध्वम् । अगारिध्वम् । एषां त्रयाणां लत्वं ढत्वं द्वित्वत्रयं चेति पञ्च वैक- ल्पिकानि । इत्थं षण्णवतिः । ‘लिड्सिचोरिति विकल्पत्