वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 456, कुल 835 में से
संदर्भ में पढ़ेंयक्चिणौ ।३।१।८९॥ एषां कर्मकर्तरि यक्चिणौ न स्तः॥ दुहेरनेन यक एव निषेधः चिण् तु विकल्पेनेष्यते । शब्लुक् । गौः पयो दुग्धे ॥ अचः कर्मकर्तरि ।३।१।६२ ॥ अजन्तात् चलेश्चिण् वा स्यात्कर्मकर्तरि तशब्दे परे॥ अकारि । अकृत॥ दुहश्च ।३।१। ६३ ॥ अदोहि । पक्षे क्सः । 'लुग्वेति पक्षे लुक् । अदुग्ध । अधुक्षत ॥ उदुम्बरः फलं पच्यते ॥ सृजियुज्योः श्यंस्तु * ॥ अनयोः सकर्मकयोः कर्ता बहुलं कर्मवत् यगपवादश्च श्यन्वाच्य इत्यर्थः ॥ सृजेः श्रद्धोपपन्ने कर्त्र्येवेति वाच्यम् * ॥ सृज्यते स्रजं भक्तः । श्र- द्धया निष्पादयतीत्यर्थः॥ असर्जि ॥ युज्यते ब्रह्मचारी योगम्॥ भूषाकर्मकिरादिसनां चान्य- त्रात्मनेपदात् * ॥ भूषावाचिनां किरादीनां सन्नन्तानां च यक्चिणौ चिण्वदिट् च नेति वा- च्यमित्यर्थः ॥ अलंकुरुते कन्या । अलमकृत । अवकिरते हस्ती । अवाकीर्ष्ट । गिरते । अगीर्ष्ट । । आद्रियते । आदृत । किरादिस्तुदाद्यन्तर्गणः॥ चिकीर्षते कटः । अचिकीर्षिष्ट इच्छायाः कर्तृस्थत्वेऽपि करोतिक्रियापेक्षमिह कर्मस्थक्रियत्वम् ॥ न रुधः ।३।१ ।६४ ॥ अस्मात् चलेश्चिण्न । अवारुद्ध गौः । कर्मकर्तरीत्येव अवारोधि गौर्गोपेन ॥ तपस्तपः- कर्मकस्यैव । ३ । १ । ८८ ॥ कर्ता कर्मवत्स्यात् ॥ विध्यर्थमिदम् । एवकारस्तु व्यर्थ एवेति
१ विकल्पेनेष्यत इति । 'दुहश्चेत्यनेन ।। नत्वपूर्वेण विधिः ॥ २ अचः कर्मकर्तरीति "दुहश्च" इत्यस्य कर्मकर्तर्येव विकल्पेन विधायकत्वात् तत्राप्यस्मादेव सूत्रात् "कर्मकर्तरि" इत्यनुवर्तते इति ध्वनयितुं पूर्वमस्य पाठ इति बोध्यम् ॥ ३ उदुम्बरः फलं पच्यते इति । काल उदुम्बरे फलं पचति इति विग्रहे अधिकरणत्वाविवक्षया "अकथितं च" इति कर्मसंज्ञायां "कर्मणि द्वितीया" इति द्वितीयायां काल उदुम्बरं फलं पचति । ततः सौकर्यविवक्षया उदुम्बरः फलं पच्यत इति भवति । ये त्वत्र "उदुम्ब- रस्य" इति षष्ठ्यन्तस्य विदधति कर्मसंज्ञां ते त्वविकृतबुद्धय एव षष्ठ्याः कारकत्वाभावात् ॥ ४ श्रद्धोपपन्ने इति । आस्तिक्यबुद्धिः श्रद्धा, तया उपपन्नो युक्त इत्यर्थः । सृजेः श्रद्धोपपन्नः कर्ता च मुख्यकर्तवेति तत्रा- त्यन्ताप्राप्तकर्मवद्भावार्थम्, युजेस्तु कर्मकर्तरि सकर्मकत्वेन प्रतिप्रसवविध्यर्थमिदं वार्तिकम् ॥ सृज्यते स्रजं भक्त इति । अत्र कर्मसंज्ञायाः फलाभावेऽपि "असर्जि" इत्यत्र तदस्त्येव । भक्तः स्रजं सृज्यते इत्येवात्र व्युत्पत्तिः, न तु पच्यते ओदन इत्यादिवदिति बोध्यम् ॥ युज्यते ब्रह्मचारी योगमिति । अत्र कर्मणः कर्तृत्वमित्थम्-योगो ब्रह्मचारिणं युनक्ति सम्बध्नाति सम्बन्धानुकूलव्यापारवान् भवतीति पूर्वकक्षा । सम्बन्धश्च योगप्रतियोगिको ब्रह्मचार्यनुयोगिकः । अत्र प्रथमक्षायामाश्रयतारूपो यः सम्बन्धस्तद्वत्त्वाद् ब्रह्मचारिणः कर्मत्वम् । ततो द्वितीयकक्षायां युजेः प्रतियोगित्वावच्छिन्नसम्बन्धार्थकत्वे ब्रह्मचारिणः कर्तृत्वम्, प्रतियोगिता- श्रयत्वाच्च योगस्य कर्मत्वम्" इति । चित्तवृत्तिनिरोधो योगः । प्रतियोगी सम्बन्धाभाववान् । अनुयोगी सम्बन्धवान् ॥ ५ भूषाकर्मेति । कर्मशब्दः क्रियापरः । "अन्यत्रात्मनेपदात्" इत्युक्तेस्त्रयाणामपि निषेध इत्याह-यगित्यादि ॥ अलं कुरुते कन्येति । कश्चित्कन्यामलङ्करोति भूषयतीति पूर्वकक्षा । अवकिरते इति । कश्चित् अङ्कुशादिना हस्तिनमवकिरति ताडयतीति पूर्वकक्षा । कृ गृ दृ धृ प्रच्छः किरादयः । तत्र कृञोः कर्मस्थक्रियत्वादात्मनेपदव्यतिरिक्तनिषेधार्थम्, अन्येषां कर्तृस्थक्रियत्वेनात्मनेपदविध्यर्थ- मिदं वार्तिकम् । उपादेयत्वादिप्रकारकज्ञानानुकूलव्यापारो दृधात्वर्थः । धारणानुकूलव्यापारो धृधात्वर्थः । ज्ञानेच्छानुकूलव्यापारः प्रच्छ्धात्वर्थः । कश्चित् पुष्पं गिरति आदत्ते इति पूर्वकक्षा । आद्रियते दानमिति पूर्वक्षा ॥ ६ अवारुद्ध गौरिति । निर्गमप्रतिबन्धपूर्वकदेशविशेषाधिकरणचिरस्थित्यनुकूलव्यापारो रुधधात्वर्थः । चिरस्थितेः कर्मनिष्ठत्वादयं कर्मस्थक्रियकः ॥